राष्ट्रपतिः प्रधानमन्त्रिणः च दत्तवन्तौ विजयादशमीशुभकामनाः
नवदेहली, 0२ अक्टूबरमासः (हि.स.)। पापेऽधर्मे च धर्मस्य जयस्य प्रतीकः विजयादशमी-पर्वणः विषयः देशव्यापिनि उत्साह-उत्सवमयि वायुमण्डले दृश्यते। नवरात्र-दुर्गापूजा-उत्सवस्य अद्य दशमः अन्तिमः च दिवसः अस्ति। अस्मिन् पुण्ये दिवसे राष्ट्रपतिः द्रौपदी मुर्मु प्
विजयादशमी की शुभकामनाएं


नवदेहली, 0२ अक्टूबरमासः (हि.स.)। पापेऽधर्मे च धर्मस्य जयस्य प्रतीकः विजयादशमी-पर्वणः विषयः देशव्यापिनि उत्साह-उत्सवमयि वायुमण्डले दृश्यते। नवरात्र-दुर्गापूजा-उत्सवस्य अद्य दशमः अन्तिमः च दिवसः अस्ति। अस्मिन् पुण्ये दिवसे राष्ट्रपतिः द्रौपदी मुर्मु प्रधानमन्त्रिणः नरेन्द्र मोदी च देशबान्धवान् अभ्यनन्दताम्।

राष्ट्रपतिः द्रौपदी मुर्मु ‘एक्स्’ इत्यस्मिन् सञ्चारमाध्यमे लिखितवती यत्, एषः उत्सवः धर्मस्य अधर्मे विजयस्य प्रतीकः अस्ति, अस्मान् च सत्यमार्गे न्यायमार्गे च गन्तुं प्रेरयति। सा रावणदहन-दुर्गापूजादीन् उत्सवान् राष्ट्रीय-मूल्यानां प्रतीकान् इति निर्दिष्टवती, ये अस्मान् क्रोध-अहङ्कार-आदीन् नकारात्मकगुणान् त्यक्त्वा साहसम् दृढतां च गृह्णीतुम् उपदिशन्ति।

प्रधानमन्त्री नरेन्द्र मोदी अपि ‘एक्स्’ इत्यस्मिन् लिखितवान् — “विजयादशमी पाप-असत्ययोः ऊपरि पुण्य-सत्ययोः विजयस्य प्रतीकः अस्ति। अस्मिन् पावने अवसरे मम अभिलाषा अस्ति यत् सर्वे साहस-बुद्धि-भक्तिमार्गेषु निरन्तरं प्रवर्तेरन्। देशव्यापिनः मम परिवारजनान् प्रति विजयादशमी-शुभकामनाः बहुशः ददामि।”

भारतीयजनतापक्षः अपि देशबान्धवान् प्रति विजयादशमी-शुभकामनाः दत्तवान्। भाजपा-अध्यक्षः जे.पी. नड्डा ‘एक्स्’ इत्यस्मिन् लिखितवान् — “धर्मो जयति नाधर्मः सत्यं जयति नानृतम्।

असत्यस्य ऊपरि सत्यस्य, अधर्मस्य ऊपरि धर्मस्य च विजयस्य महापर्वणः विजयादशम्याः सर्वेभ्यः देशबान्धवेभ्यः हार्दिकं शुभाशंसनं ददामि। अस्मिन् पुण्ये पर्वणि मर्यादा-पुरुषोत्तम-भगवतः श्रीरामस्य आदर्शान् आत्मसात् कृत्वा जीवनं सार्थकं कुर्मः।”

हिन्दुस्थान समाचार / अंशु गुप्ता