ज़ुबीन गर्गस्य मरणं परिशीलितुम् असम पुलिसदलं प्राप्नोत् सिंगापुरम्
गुवाहाटी, 20 अक्टूबरमासः (हि.स.)।प्रसिद्धगायकः ज़ुबीन् गर्गः इत्यस्य रहस्यमयमृत्युविषये अनुसन्धानेन सम्बन्धं कृत्वा असमराज्यस्य पुलिस्-दलम् अद्य सिङ्गापुरनगरं प्राप्तम्। एषा टीम् घटनास्थलं गत्वा निरीक्षणं करिष्यति, ततः स्वदेशं प्रत्यागत्य माध्यमेषु
मीडिया से बातचीत करते हुए सम पुलिस की विशेष जांच दल (एसआईटी) के प्रमुख और सीआईडी के विशेष डीजीपी मुन्ना प्रसाद गुप्ता।


गुवाहाटी, 20 अक्टूबरमासः (हि.स.)।प्रसिद्धगायकः ज़ुबीन् गर्गः इत्यस्य रहस्यमयमृत्युविषये अनुसन्धानेन सम्बन्धं कृत्वा असमराज्यस्य पुलिस्-दलम् अद्य सिङ्गापुरनगरं प्राप्तम्। एषा टीम् घटनास्थलं गत्वा निरीक्षणं करिष्यति, ततः स्वदेशं प्रत्यागत्य माध्यमेषु विस्तृतं विवरणं दास्यति।

सूत्रैः निगदितं यत् असमपुलिसदलस्य अपराधअनुसन्धानशाखायाः (सी.आई.डी.) विशेषडीजीपी मुन्नाप्रसादगुप्तः तथा तिताबरक्षेत्रस्य सहजिलापुलिसाधीक्षकः तरुणगोयलः सिङ्गापुरे अनुसन्धानस्य नेतृत्वं वहतः स्तः। गुप्तः विशेषअनुसन्धानदलस्य (एस्.आई.टी.) प्रमुखः अस्ति, तरुणगोयलः तस्य कोरटीमस्य सदस्यः अस्ति।

गायकः ज़ुबीन् गर्गः १९ सितम्बरमासे सिङ्गापुरे रहस्यमयपरिस्थितिषु निधनं गतवान्। सः पूर्वोत्तरभारतात् आगत्य चतुर्थे नॉर्थ ईस्ट इण्डिया फेस्टिवले भागग्रहणार्थं तत्र गतः आसीत्। तस्य निधनानन्तरं समग्रे असमराज्ये तीव्रजनाक्रोशः अभवत्, षष्ट्यधिकाः प्राथमिकीपत्रिकाः दाखलिताः, येषां मध्ये पारदर्शकअनुसन्धानस्य माँग आसीत्।

पुलिस्सूत्राणि वदन्ति यत् अनुसन्धानदाराः तं प्रदेशं निरीक्ष्यन्ति यत्र ज़ुबीनः डुबितः इति घटनासंभावना। सः स्थले घटनाक्रमस्य सूत्राणि संयोजयितुं अत्यन्तं महत्त्वपूर्णः इति मन्यते।

एतदनन्तरं दलं सिङ्गापुरपुलिसदलेन सह मिलित्वा फॉरेंसिक्, चिकित्सीयं, कानूनीं च दस्तावेजसङ्ग्रहम् अपि परीक्षिष्यते।

असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा इत्यनेन माध्यमेषु उक्तं यत् “एस्.आई.टी. दलस्य प्रत्यागमनानन्तरं सम्पूर्णा अनुसंधानप्रतिवेदनम् सार्वजनिकं भविष्यति। सरकार अनुसंधाने पारदर्शितां प्रति प्रतिबद्धा अस्ति।”

ते अपि अवदन् यत् — “सरकार न्यायसुनिश्चित्यर्थं सर्वाणि सम्भवितानि उपायान् प्रयुञ्जते।”

ज़ुबीनगर्गस्य निधनं केवलं असमराज्यं न, अपितु समग्रं राष्ट्रं च विदेशस्थितान् असमियजनान् च गहनरूपेण प्रभावितवान् इति।

--------

हिन्दुस्थान समाचार