Enter your Email Address to subscribe to our newsletters
पटना, 20 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य द्वितीयचरणस्य मतदानार्थं नामनिर्देशनप्रक्रिया अद्य सम्पन्ना भविष्यति। नामनिर्देशनप्रक्रियायाः आरम्भः त्रयोदशोऽक्टोबरमासदिनाङ्के अभवत्, अद्य (विंशतितमे अक्टोबरमासे) नामनिर्देशनस्य अन्तिमदिनः अस्ति। नामनिर्देशनपत्राणां परीक्षाः मङ्गलवासरे एकविंशतितमे अक्टोबरदिनाङ्के भविष्यति। प्रत्याशीगण त्रयोविंशतितमदिनाङ्कपर्यन्तं (अक्टोबरमासे) स्वनाम प्रत्याहर्तुं शक्नुवन्ति। द्वितीयचरणस्य एकशतद्वादशासु आसनेषु मतदानम् एकादशे नवम्बरमासे भविष्यति। मतगणना चतुर्दशे नवम्बरमासे भविष्यति। राजनीतिकदलेषु प्रचारकर्मणि चञ्चलता तीव्रा जाता अस्ति। कतिपयासनेषु त्रिकोणीं चतुष्कोणीं च स्पर्धाम् अपेक्ष्यते। प्रशासनस्य पक्षतः अपि निष्पक्षं, शांतिपूर्णं तथा पारदर्शकं निर्वाचनं सम्पादयितुं तीव्राः सिद्धताः क्रियन्ते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता