रायपुरम् : मुख्यमंत्री सायो दीपावल्याः गोवर्धन पूजायाः अददात् हार्दिक शुभकामनाः
रायपुरम्, 20 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवः सायः सोमवासरे प्रदेशवासिभ्यः दीपावल्याः गोवर्धनपूजायाः च हार्दिकशुभकामनाः दत्त्वा उक्तवान् – “दीपावली पर्व प्रकाशस्य, सत्यस्य च सद्भावस्य च प्रतीकः अस्ति। एषः पावनः पर्वः अन्धकारे प्रकाशस्य,
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, 20 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवः सायः सोमवासरे प्रदेशवासिभ्यः दीपावल्याः गोवर्धनपूजायाः च हार्दिकशुभकामनाः दत्त्वा उक्तवान् –

“दीपावली पर्व प्रकाशस्य, सत्यस्य च सद्भावस्य च प्रतीकः अस्ति। एषः पावनः पर्वः अन्धकारे प्रकाशस्य, असत्ये सत्यस्य, नकारात्मकतायाम् सकारात्मकतायाः च विजयस्य प्रतीकः अस्ति। दीपानां उत्सवः अस्माकं जीवने नवीनशक्ति, नवीनचेतना च आशायाः संचारं करोति।”

मुख्यमन्त्री सर्वेभ्यः नागरिकेभ्यः आह्वानं कृतवान् –

“दीपावलिं स्वदेशीभावेन, पर्यावरणसंरक्षणं मनसि धारयित्वा च मनयन्तु। परस्परस्य सुखदुःखे सहभागीभूताः समाजे प्रेमसौहार्दस्य संदेशं प्रसारयन्तु।”

मुख्यमन्त्री सायः गोवर्धनपूजायाः शुभकामनाः दत्वा उक्तवान् –

“एषः पर्वः प्रकृत्यै, पशुधनाय च पर्यावरणाय च श्रद्धा आभारस्य च प्रतीकः। गोवर्धनपूजा अस्मान् शिक्षयति यत् प्रकृतिसंरक्षणं एव समृद्धेः आधारः अस्ति।”

ते विश्वासं व्यक्तवन्तः –

“दीपावल्याः गोवर्धनपूजायाः च एषः पावन अवसरः छत्तीसगढराज्ये सौभाग्यं, समृद्धिं च विकासस्य नवीनप्रकाशं आनयिष्यति। सर्वेषु गृहेषु च आनन्दः शान्ति उज्ज्वलता च प्रसारितः भविष्यति।”

---------------

हिन्दुस्थान समाचार