Enter your Email Address to subscribe to our newsletters
1951 तमे वर्षे 21 अक्टूबर दिनाङ्के एव डॉ॰ श्यामा प्रसादमुखर्जी इत्यनेन भारतीयजनसंघस्य स्थापना कृता आसीत्। एतत् संगठनं भारतीयराजनीतौ दक्षिणपन्थी विचारधारायाः प्रमुखप्रतिनिधिरूपेण प्रतिष्ठितः अभवत्। जनसंघस्य उद्देश्यम् आसीत् — भारतीयसंस्कृतिः, राष्ट्रीयैक्यं, स्वदेशीभावना च आधारितां राजनीतिं अग्रे नेतुम् वर्तते। अस्य दलस्य निर्माणं भारतीयराष्ट्रीयकाँग्रेसस्य प्रभावस्य विकल्परूपेण जातम्। पश्चात् 1977 तमे वर्षे आपात्कालस्य अनन्तरं भारतीयजनसंघः, जनलोकदलः अन्ये च दलाः मिलित्वा भारतीयजनतादलस्य (भा.ज.पा.) अधिष्ठानं निर्मितवन्तः। भारतीयजनसंघेन भारतीयराजनीतौ राष्ट्रवादस्य, ऐक्यस्य, आत्मनिर्भरतायाश्च भावनां दृढतया संस्थापयितुं महत्त्वपूर्णं योगदानं कृतम्।
महत्प्रधानानि घटनाचक्राणि —
1296 — अलाउद्दीनखिलजी देहल्याः सिंहासनम् अधितिष्ठत्।
1555 — इंग्लैण्डस्य संसद् फिलिपं स्पेनस्य राजरूपेण मानितुं न अङ्गीकृतवती।
1727 — रूस–चीनयोः मध्ये सीमासमीकरणार्थं सन्धिः जातः।
1854 — फ्लोरेंस नाइटिंगेल 38 परिचारिकाभिः सह क्रिमियायुद्धे प्रेषिता आसीत्।
1871 — अमेरिकायां प्रथमं अव्यवसायिकं बहिःक्रीडारूपं एथलेटिकप्रतियोगितं न्यूयॉर्के जातम्।
1918 — मार्गेट ओवन इत्यनेन एकमिनिटे 170 वीपीएम लेखनवेगः विश्वविक्रमः स्थापितः।
1934 — जयप्रकाशनारायणेन कांग्रेससोशलिस्टपार्टी स्थापिता।
1934 — नेताजी सुभाषचन्द्रबोसः सिंगापुरे आजादहिन्दफौज इत्यस्य स्थापनां कृतवान्।
1945 — फ्रांसदेशे प्रथमवारं स्त्रीभ्यः मतदानाधिकारः प्रदत्तः।
1948 — संयुक्तराष्ट्रेण आणविकशस्त्रविनाशार्थं रूसस्य प्रस्तावः निरस्तः।
1950 — बेल्जियमदेशे मृत्युदण्डः समाप्तः।
1951 — भारतीयजनसंघस्य स्थापना अभवत्।
1954 — भारत–फ्रांसयोः मध्ये पौण्डीचेरी, करैकल, माहे इत्येतानि भारतीयगणराज्ये सम्मिलनार्थं सन्धिः हस्ताक्षरितः (१ नवम्बरात् प्रवृत्तः)।
1970 — नॉर्मन इ. बारलॉग इत्यस्मै नोबेलशान्तिपुरस्कारः प्रदत्तः।
1999 — सुकर्णोपुत्री मेघावती इण्डोनेशियायाः उपराष्ट्रपतिरूपेण निर्वृता।
2003 — चीन–पाकिस्तानयोः नौसैनिकाभ्यासः आरब्धः, चीनदेशेन 4–बी रॉकेटेन द्वौ उपग्रहौ प्रक्षिप्तौ।
2005 — मुख्तारणमाई नाम्नी पाकिस्तानीयस्त्री “वूमन ऑफ द इयर” इति उपाधिं प्राप्तवती।
2007 — भारतीयमूलः अमेरिकीयः बॉबी जिंदल इत्यस्मै लुसियानाप्रान्तस्य राज्यपालपदं लब्धम्।
2008 — भारत–पाकिस्तानयोः मध्ये 61 वर्षपरं कारवाँ-ए-तिजारत आरब्धः।
2012 — साइना नेहवाल इत्यस्मै डेनमार्क ओपन सुपर सीरीज़ इति खिताबः प्राप्तः।
2013 — कनाडादेशेन मलाला युसूफज़ई इत्यस्मै नागरिकता प्रदत्ता।
2014 — ऑस्कर पिस्टोरियस नामकः धावकः स्वप्रेयस्याः हत्यायां दोषी घोषितः पञ्चवर्षपर्यन्तं कारायां निहितः।
जन्मानि —
1939 — हेलनः, हिन्दीचलच्चित्रेषु प्रसिद्धा नर्तकी।
1937 — फारूक अब्दुल्ला, जम्मू–काश्मीरराज्यस्य पूर्वमुख्यमंत्री।
1931 — शम्मीकपूरः, हिन्दीचलच्चित्रस्य विख्यात अभिनेता।
1925 — सुरजीतसिंह बरनाला, पंजाबराज्यस्य पूर्वमुख्यमंत्री।
1957 — अशोक लवासा, भारतस्य पूर्वनिर्वाचनायुक्तः।
1889 — काशीनाथ नारायण दीक्षितः, भारतीयपुरातत्त्वविदः।
1887 — कृष्णसिंहः, बिहारराज्यस्य प्रथममुख्यमंत्री।
1830 — नैनसिंह रावतः, हिमालयप्रदेशस्य प्रथमभारतीयअन्वेषकः।
निधनानि —
2012 — यशचोपडाः, विख्यातचलच्चित्रनिर्माता–निर्देशकः।
1998 — अजीतः, हिन्दीचलच्चित्रेषु प्रसिद्धः अभिनेता।
विशेषदिवसाः —
— आरक्षकस्मृतिदिवसः।
— विश्वायोडीनअल्पतादिवसः।
— आजादहिन्दफौजस्थापनादिवसः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता