Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 20 अक्टूबरमासः (हि.स.)।दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता, विधानसभाध्यक्षः विजेन्द्रगुप्तः, दिल्लीमन्त्रिणश्च सर्वे देशवासिनः प्रति दीपावलिपर्वणः शुभाशंसनम् अकुर्वन्।
ते सर्वे एक्सनामके सामाजिकमाध्यमे लेखं प्रकाशितवन्तः यत्र उक्तवन्तः — “अयं पावनः दीपोत्सवः भवतां जीवनं प्रति सुख-समृद्धि-रिद्धि-सिद्धीनां अमरधारां प्रवहतु। भवतां गृहे आङ्गणे च आनन्दः, स्नेहः, सौभाग्यं च नित्यं वसतु।”
मुख्यमन्त्री रेखागुप्ता उक्तवती — “प्रत्येकः दिवसः शुभः भवतु, सर्वे प्रयासाः सफलाः स्युः, जीवनमार्गे नित्यं शान्तिः, प्रेम, प्रगति च प्रवहतु।
महालक्ष्म्याः कृपा, प्रभोः श्रीरामस्य मातुः सीतायाः च आशीर्वादः भवतां जीवनं आलोकयतु। अयं पावनः दीपोत्सवः तमसः परिहरणं कृत्वा प्रकाशमार्गे नयति, नूतनाम् ऊर्जां च प्रदत्तुं समर्थः।”
सा अपि अवदत् — “अस्य वर्षस्य दीपावली दिल्लीपुर्याः कृते अद्वितीया अस्ति। यतः प्रथमवारं स्वतन्त्रभारतकालानन्तरं कर्तव्यपथे भव्यः ‘दिव्यदीपोत्सवः’ आचरितः। सहस्रसहस्रदीपप्रदीप्त्या कर्तव्यपथः जगमाजलत्, आस्था-आधुनिकतयोः संगमं दर्शयन्। एषः दीपोत्सवः नूतनभारतस्य संकल्पशक्तेः सांस्कृतिकपुनरुत्थानस्य च प्रतीकः।”
“अयं पावनः पर्वः भवतां जीवनं प्रति सुख-समृद्धि-रिद्धि-सिद्धीनां अमरधारां प्रवहतु। भवतां गृहे आङ्गणे च आनन्दः, स्नेहः, सौभाग्यं च नित्यं वसतु। प्रत्येकः दिवसः शुभः, प्रत्येकः प्रयत्नः सफलः, जीवनमार्गे शान्तिः, प्रेम, प्रगति च सदा प्रवहतु।”
विजेन्द्रगुप्तः अपि सर्वान् प्रति दीपावलिपर्वस्य शुभकामनाः अर्पयत् — “अयं प्रकाश-उल्लासयोः पावनः उत्सवः भवतां जीवनं प्रति नूतनाम् ऊर्जां, उमंगं, सुखं, समृद्धिं च प्रसारितुं समर्थः। महालक्ष्मीभगवत्याः गणेशभगवतः च अनन्तया कृपया भवतां जीवनं शान्त्या, सौभाग्येन, आनन्देन च नित्यं पूर्णं भवतु।”
तथैव दिल्लीस्य लोकनिर्माणविभागमन्त्री प्रवेशसाहिबसिंहः दीपावलिशुभकामनाः दत्त्वा प्रार्थितवान् — “महालक्ष्मीगणेशौ सर्वेषां जीवनं प्रति सुख-समृद्धि-शान्तीनां प्रसारं करोताम्।”
दिल्लीशिक्षामन्त्री आशीषसूदः अपि दीपावलिशुभाशंसनं कृत्वा उक्तवान् — “अस्मिन् वर्षे सर्वे जनाः मिलित्वा ‘वोकल फॉर लोकल्’ इति संकल्पं गृह्णीयुः, स्वदेशीउत्पादनानाम् अभिवृद्धिं प्रोत्साहयन्तु।”
---------------
हिन्दुस्थान समाचार