Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 20 अक् टूबरमासः (हि.स)।दिल्लीनगरस्य वायुगुणे अद्य महान् पतनं दृष्टम्। दीपावलिप्रातःकाले एव वायौ अत्यधिकं विषाक्तत्वं प्रकटितम्, मध्यान्हसमये तु वायुगुणः अधिकं दूषितो जातः।
अष्टत्रिंशत् निरीक्षणस्थानानां मध्ये एकत्रिंशत्स्थानेषु प्रदूषणस्तरः “अत्यधमः (बहुत खराब)”, त्रिषु स्थानेषु तु “गंभीरः” इति वर्गः अभिलिखितः।
एतेन सह दिल्लीस्य वायुगुणसूचकाङ्कः (AQI) त्रिशताधिकः प्राप्तः, यः “अत्यधमवर्गे” गण्यते।
केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य (CPCB) “समीर” नामकसञ्चारयन्त्रे (ऐप) दत्तानुसारं, नवीदिल्लीमध्ये मध्यान्हसमये समग्रः AQI ३३४ आसीत्, प्रातः नववादने तु ३३९ आसीत्।
एकत्रिंशत् स्थानानि वायुगुणं “अत्यधमं” इति निर्दिष्टवन्ति, यस्मिन् AQI स्तरः ३००ाधिकः आसीत्। त्रयः स्थानविशेषाः — आनन्दविहार (४०२), वज़ीरपुर (४२३), अशोकविहार (४१४) — “गंभीर” वर्गे अभिलिखिताः।
आगामिनि मङ्गलवासरे (२१ अक्टूबर) तथा बुधवासरे (२२ अक्टूबर) वायुगुणस्य अधिकदूषणं सम्भाव्यं, “गंभीरवर्गे” प्रवेशः अपेक्षितः।
वायुगुणसूचकाङ्कस्य परिमाणानि —
०–५० : “श्रेष्ठम्” (अच्छा)
५१–१०० : “सन्तोषजनकः”
१०१–२०० : “मध्यमः”
२०१–३०० : “दूषितः”
३०१–४०० : “अत्यधमः”
४०१–५०० : “गंभीरः” इति परिगण्यन्ते।
पूर्वं वायुगुणप्रबन्धनायोगेन (CAQM) राष्ट्रीयराजधानीक्षेत्रे ग्रेडेड् रिस्पॉन्स् एक्शन् प्लान् (GRAP) इत्यस्य द्वितीयचरणं
प्रवर्तितम्।
---------------
हिन्दुस्थान समाचार