Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 20 अक्टूबरमासः (हि.स.)।दीपावलि-षष्ठीपूजयोः अवसरयोः यात्रिकाणां अत्यधिकभीडां समायोजयितुं पूर्वोत्तरसीमान्तरेलवे (पूसीरे) इत्यनेन सितंबरमासात् दिसंबरमासपर्यन्तं विभिन्नमार्गेषु ४८ उत्सवविशेषरेलयानानां कुलं ६१३ फेऱाणां संचालनं क्रियते।पूसीरे-सम्पर्कसम्बन्धप्रमुखः (सी.पी.आर.ओ.) कपिंजलकिशोरशर्मणा सोमवारे निवेदितं यत्, एते विशेषरेलयानानि कटिहार्, सोनपुर्, दौरममधेपुरा, अगरतला, न्यूतिनसुकिया, एस्.एम्.वी.टी. बेंगलूरु, अमृतसर, पटना, डिब्रूगढ, गोरखपुर, सिलचर, कोलकाता, गुवाहाटी, राँची, चर्लपल्ली, मुम्बईसेंट्रल्, आग्राकैंट्, जोगबनी, शालीमार् तथा कामाख्या इत्यादीनि महत्वपूर्णस्थलानि परस्परं संयोजयन्ति।परिचालनव्यवहार्यता तथा वर्तमानापेक्षानुसारम् एते रेलयानसेवाः दैनिकं, साप्ताहिकं, त्रिसाप्ताहिकं वा विशिष्टकार्यदिवसेषु प्रदानाः भवन्ति।एषां विशेषरेलयानानां संचालनात् पूर्वोत्तर, उत्तरबङ्गाल्, बिहार् इत्यादिभ्यः प्रदेशेभ्यः आगच्छतां प्रस्थितानां च यात्रिकाणां अतिसंमर्दनिवारणं साध्यते।
,--------------------------
हिन्दुस्थान समाचार