प्रधानमंत्री राष्ट्रपतिना सह मेलनं कृत्वा दीपावल्याःअददात् शुभकामनाः
नवदिल्ली, 20 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सोमवारे राष्ट्रपतिभवने राष्ट्रपतिं द्रौपदीमूर्मूं समुपेत्य तस्यै दीपावलिपर्वणः शुभाशंसनं दत्तवन्तः। राष्ट्रपतिसचिवालयेन तयोः साक्षात्कारस्य छायाचित्राणि सामाजिकमाध्यमेषु प्रकाशितानि। अस्
प्रधानमंत्री ने राष्ट्रपति से मुलाकात कर दीपावली की शुभकामनाएं दी


नवदिल्ली, 20 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सोमवारे राष्ट्रपतिभवने राष्ट्रपतिं द्रौपदीमूर्मूं समुपेत्य तस्यै दीपावलिपर्वणः शुभाशंसनं दत्तवन्तः।

राष्ट्रपतिसचिवालयेन तयोः साक्षात्कारस्य छायाचित्राणि सामाजिकमाध्यमेषु प्रकाशितानि।

अस्मिन्नेव दिने उपराष्ट्रपतिः सी.पी. राधाकृष्णन् अपि तया सह मिलित्वा दीपावलिशुभकामनाः अर्पितवन्तः।

राष्ट्रपतिं पूर्वराष्ट्रपतिः रामनाथकोविन्दः स्वकुटुम्बसहितं समुपेत्य साक्षात्कारं कृतवान्। तदनन्तरं दिल्लीनगरस्य मुख्यमन्त्री रेखागुप्ता अपि तया सह मिलिता।

दीपावलिपर्व अद्य सर्वत्र राष्ट्रे उत्साहेन, हर्षेण च सम्पन्नं भवति। अस्मिन्हि अवसरि प्रधानमन्त्रिणा प्रातःकाले आई.एन.एस्. विक्रान्त् इत्यस्मिन् नौसैनिकैः सह दीपोत्सवः उत्साहपूर्वकम् आचरितः।

---------------

हिन्दुस्थान समाचार