Enter your Email Address to subscribe to our newsletters
वाराणसी, 20 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणसीस्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालये तुलनात्मकदर्शनधर्मविभागस्य आचार्यः प्रो रजनीशकुमारशुक्लः अन्ताराष्ट्रियस्तरे महान् सम्मानं प्राप्तवान्। इंडोनेशियादेशस्य बालिद्वीपे स्थितं आई जी बी सुग्रीव स्टेट हिन्दू विश्वविद्यालयम् इत्येतत् विश्वविद्यालयं तं हिन्दू-अध्ययनक्षेत्रे अस्य उत्कृष्टयोगदानाय “Certificate of Appreciation Award” इत्यनेन सम्मानितवन्।
एषः विश्वविद्यालयस्य इतिहासे प्रथमवारं भवति यदा कश्चन विदेशी-शैक्षणसंस्थया सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य आचार्यः आधिकारिकरूपेण सम्मानितः जातः।
विश्वविद्यालयस्य जनसम्पर्काधिकृतः शशिन्द्रमिश्रः सोमवारे उक्तवान् यत् एतत् सम्माननं प्रो शुक्लाय २०२५ तमे वर्षे अक्टूबर् मासस्य पञ्चदशदिने चतुर्थे वैश्विकसंस्कृतसम्मेलनस्य समापनसमारोहे प्रदत्तः। कार्यक्रमः सुग्रीवहिन्दूविश्वविद्यालयपरिसरे एव सम्पन्नः। एषं पुरस्कारं तस्मै विश्वविद्यालयस्य कुलपतिः डॉ. कुश्ती न्गुर्ह सुदीयानः स्वहस्तेन प्रदानम् अकरोत्।
तस्मिन् अवसरे लालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य कुलपति प्रो. मुरलीमनोहरपाठकः तथा हेमवतीनन्दनबहुगुणगढ़वालविश्वविद्यालयस्य कुलपति प्रो. श्रीप्रकाशसिंहश्च उपस्थितौ आसताम्।
प्रो. शुक्लः एकः प्रख्यातः दर्शनशास्त्राचार्यः, विचारकः, लेखकश्च अस्ति। सः महात्मा गाँधीअन्ताराष्ट्रियहिन्दीविश्वविद्यालयस्य वर्धायां कुलपतिरपि आसीत्। अपि च सः भारतीयदर्शनअनुसन्धानपरिषदस्य भारतीयइतिहासअनुसन्धानपरिषदस्य च सदस्यसचिवपदेऽपि सेवानिरत आसीत्।
तस्य रचनाः प्रसिद्धाः — “भारतीयज्ञानपरम्परा और विचारक”, “शिक्षा जो स्वर साध सके”, “कांट का सौन्दर्यशास्त्र” इत्यादयः। तेन लिखितानि शताधिकं शोधपत्राणि च आलेखाः च विविधासु राष्ट्रीय-अन्तर्राष्ट्रीयपत्रिकासु प्रकाशितानि।
पूर्वं तेन “कर्मवीरपुरस्कारः २०२२”, “Most Dedicated Vice Chancellor Award”, “वाग्योगसम्मानः” इत्यादयः विशेषपुरस्काराः अपि लब्धाः।
अस्मिन् अन्तर्राष्ट्रीयसम्माने सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. बिहारीलालशर्मा प्रो. शुक्लं हार्दिकं अभिनन्दितवन्तः। ते अवदन् — “एषः सम्मानः केवलं प्रो. शुक्लस्य व्यक्तिगतः न, अपि तु अस्माकं विश्वविद्यालयस्य अपि गौरवक्षणम्। अनेन अस्माकं विश्वविद्यालयस्य ख्यातिः वैश्विकस्तरे नूतनां प्रतिष्ठां प्राप्स्यति।”कुलपतिना अपि उक्तं यत् “एषः सम्मानः हिन्दू-अध्ययनक्षेत्रे भारतीयदर्शनस्य च अनुसन्धानं गहनतरं करिष्यति।”
-----------
हिन्दुस्थान समाचार