उत्सवीयशृंखलायां यात्रिणाम् आवागमनस्य अन्वेषणाय युद्धकक्षं प्राप्नोत् रेल मंत्री
नवदिल्ली, 20 अक्टूबरमासः (हि.स.)।रेलमन्त्री अश्विन्यवैष्णवः अद्य रेलपरिषदः युद्धकक्षं (वॉर रूम) निरीक्षितवान्। सः उत्सवकालीनयात्रासमये यात्रिणां गमनागमनस्य स्थितिं परीक्ष्य रेलकर्मचारिणां चौबीसघण्टात्मकं सेवाभावं प्रशंस्य दीपावालीपर्वणि तेषां प्रति
उत्सवीयशृंखलायां यात्रिणाम् आवागमनस्य अन्वेषणाय युद्धकक्षं प्राप्नोत् रेल मंत्री


नवदिल्ली, 20 अक्टूबरमासः (हि.स.)।रेलमन्त्री अश्विन्यवैष्णवः अद्य रेलपरिषदः युद्धकक्षं (वॉर रूम) निरीक्षितवान्। सः उत्सवकालीनयात्रासमये यात्रिणां गमनागमनस्य स्थितिं परीक्ष्य रेलकर्मचारिणां चौबीसघण्टात्मकं सेवाभावं प्रशंस्य दीपावालीपर्वणि तेषां प्रति शुभाशंसनानि दत्तवान्।

भारतीयरेलविभागेन वर्तमानोत्सवकाले यात्रिकाणां वर्धमानयात्रामाङ्गल्यं साधयितुं व्यापकाः व्यवस्थाः कृताः। पूजादिवालीछठ्पर्वेषु यात्रिणां सुगमं गमनं सुनिश्चितुं रेलया १२,०११ विशेषयानानि सञ्चालितानि। गतवर्षे अस्मिन्नेव काले ७,७२४ यानानि एव सञ्चालितानि आसन्।

रेलमन्त्रालयस्य अनुसारं भारतीयरेला उत्सवजनितसंमर्दे यात्रिणां सुगमं सुखदं च गमनं सुनिश्चितुं पूर्णशक्त्या कार्यं करोति। नियमितयानसेवाभ्यः अतिरिक्तं रेलया १ अक्टूबरात् १९ अक्टूबरपर्यन्तं ३,९६० विशेषयानानि सफलतया सञ्चालितानि।

दिवालीछठ्पर्वयोः समये यात्रिणां संख्यायाः संभावितवृद्धिं दृष्ट्वा भारतीयरेला आगामिदिनेषु प्रायः ८,००० अन्यविशेषयानानि सञ्चालितुं योजनां कृतवती अस्ति। एतानि विशेषयानानि सर्वेषु रेलक्षेत्रेषु सञ्चालयन्ति — यत्र उत्तररेला (१९१९ यानानि), मध्यरेला (१९९८ यानानि), पश्चिमरेला (१५०१ यानानि) च अधिकतया यानानि सञ्चालयन्ति। पूर्वमध्यरेला (१२१७) उत्तरपश्चिमरेला (१२१७) च अपि क्षेत्रीययात्रानां पूर्त्यर्थं विशेषयानानि आरब्धवन्तौ।

पूर्वं च केन्द्रमन्त्री नवीदिल्ली-आनन्दविहारस्थानकयोः दौत्यं कृत्वा यात्रिभिः सह संवादं कृतवान्, रेलदत्तव्यवस्थासु तेषां प्रतिक्रियाः अपि श्रुतवान्। यात्रिणां सुगमयात्रार्थं विशेषव्यवस्थासु प्रतीक्षाक्षेत्राणि, अधिकसंख्याकटिकट्-काउण्टर्‌णाम् व्यवस्था, पानजलप्रबन्धः, यानसमयप्रदर्शनम्, अन्यसुविधाश्च समाविष्टाः।

मन्त्रालयस्य अनुसारं भारतीयरेला उत्सवकालीनभीडौ सर्वेषां यात्रिणां सुरक्षितं सुखदं च निर्विघ्नं गमनं प्रदातुं प्रतिबद्धा अस्ति। १२ लक्षाधिकाः रेलकर्मचारिणः कुशलसञ्चालनं प्रत्येकयात्रिकस्य च सुखदं अनुभवम् सुनिश्चितुं निःशेषतः परिश्रमन्ति।

-----------

हिन्दुस्थान समाचार