अररियाजनपदस्य षट्सु विधानसभाक्षेत्रेषु पञ्चनवतिः (९५) अभ्यर्थिभिः नामनिर्देशनपत्राणि समर्पितानि सन्ति
अररिया 21 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य प्रसङ्गे जनपदस्य सर्वेषां षट्सु विधानसभाक्षेत्रेषु समष्ट्या पञ्चनवतिः (९५) अभ्यर्थिभिः नामनिर्देशनपत्राणि समर्पितानि सन्ति। यस्मिन् मान्यराजनीतिकदलगणाः, पञ्जीकृतदलगणाश्च, अपि च बहुसंख्ये निर्द
अररिया फोटो:समाहरणालय की फाइल तस्वीर


अररिया 21 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य प्रसङ्गे जनपदस्य सर्वेषां षट्सु विधानसभाक्षेत्रेषु समष्ट्या पञ्चनवतिः (९५) अभ्यर्थिभिः नामनिर्देशनपत्राणि समर्पितानि सन्ति। यस्मिन् मान्यराजनीतिकदलगणाः, पञ्जीकृतदलगणाश्च, अपि च बहुसंख्ये निर्दलीयप्रत्याशी अपि स्वनामनिर्देशनपत्रं समर्पितवन्तः।

नामनिर्देशनप्रक्रिया त्रयोदशतमे अक्टोबरमासदिनाङ्कात् विंशतितमदिनाङ्कपर्यन्तं आसीत्। नामनिर्देशनसमाप्तेः अनन्तरं सर्वाधिकं अभ्यर्थिनां संख्या नरपतगञ्जविधानसभाक्षेत्रे दृश्यते, यत्र अष्टाविंशतिः (२८) अभ्यर्थिभिः नामनिर्देशनपत्राणि समर्पितानि। तथैव न्यूनतमं दश (१०) अभ्यर्थिनः सिकटीविधानसभाक्षेत्रे अभ्यर्थित्वं प्रस्तुतवन्तः।

जनपदे नरपतगञ्जात् २८, रानीगञ्जात् १२, फारबिसगञ्जात् १३, अररियात् २०, जोकीहाटात् १२, तथा सिकटीतः १० अभ्यर्थिभिः नामनिर्देशनपत्राणि समर्पितानि।

अद्य मङ्गलवासरे नामनिर्देशनपत्राणां समीक्षा भविष्यति। ततः अनन्तरं त्रयोविंशतितमे अक्टोबरमासदिनाङ्के ये अभ्यर्थयः निर्वाचनयुद्धात् निवर्तितुम् इच्छन्ति, ते स्वनामानि प्रत्याहर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता