Enter your Email Address to subscribe to our newsletters
अररिया, 21 अक्टूबरमासः (हि.स.)।जनपदस्य विविधाः देवालयाः पूजासमितयश्चच मिलित्वा मातुः कालीदेव्याः पूजा गतायां अर्धरात्रौ समपादयन्। बहुसंख्यकाः श्रद्धालवः देवालयेषु तथा समितिभिः स्थापितेषु पण्डालेषु एकत्र्य, मातुः कालीदेव्याः आराधनां पूजनं च श्रद्धया अकुर्वन्।
मातुः कालीपूजा रात्रिबेलायामेव विधीयते। वैदिकनियमरीत्यानुसारं कृतायां पूजायां फलैः पुष्पैः सह ‘खीर’ नाम्ना महाभोगः मातरि समर्पितः। विशेषाकर्षणस्य केन्द्रं आसीत् माता खड्गेश्वरीकालीमन्दिरम्, यत्र वर्षानुवर्षं कारागारनिवासिनां हस्तनिर्मितमालाभिः मातुः पूजा क्रियते—एषा परम्परा अस्मिन्नेव वर्षे अपि निर्वहिता।
अररियानगरे प्रसिद्धं ऐतिहासिकं च माता खड्गेश्वरीकालीमन्दिरं श्रद्धालुभिः सहस्रशः पूरितम्। तत्र मातुः खड्गेश्वरीकालीदेव्याः साधकः नानू दा इत्याख्यः विशेषपूजार्चनां कृतवान्, महाभोगरूपेण खीर समर्पितवान्। तदनन्तरं पूजनान्ते तदेव भक्तजनानां मध्ये वितरितम्।
अवसरे तत्र स्त्रीपुरुषबालकाः बहुसंख्येन उपस्थिताः आसन्। मातुः कालीपूजां प्रति खड्गेश्वरीकालीमन्दिरं विशेषरूपेण अलङ्कृतम् आसीत्। कोलकातानगरात् आगतानां पुष्पसज्जाकारकानां करैः देवालयः, प्राङ्गणं, मुख्यद्वारं च मनोहररूपेण सज्जीकृतम्।
तत्र किलामितानि प्रकाशदीपजालानि अपि बहुदूरपर्यन्तं प्रसारितानि, यानि श्रद्धालूनां कृते विशेषाकर्षणकेंद्रत्वेन प्रसिद्धानि अभवन्।
अन्ते मातुः कालीदेव्याः साधकात् नानूदातः आशीर्वादं प्राप्तुम् जनानां मध्ये आकुलता दृष्टा। सर्वे भक्ताः भक्तिभावेन नमस्कृत्य मातुः कृपां प्रार्थितवन्तः।
हिन्दुस्थान समाचार