पुलिस स्मृति दिवसे मुख्यमंत्री पुलिस बलस्य साहसं बलिदानं नतवान्
गुवाहाटी, 21 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्त-बिस्व-शर्मा महोदयेन पुलिस-स्मृति-दिवसस्य अवसरं प्रति राज्य-पुलिसबलस्य अदम्य-साहसम् तथा मातृभूमेः रक्षणार्थं तेषां परम-बलिदानम् अभिनन्द्य नमनं कृतम्। मुख्यमन्त्रिणा उक्तं यत् “पुल
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 21 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्त-बिस्व-शर्मा महोदयेन पुलिस-स्मृति-दिवसस्य अवसरं प्रति राज्य-पुलिसबलस्य अदम्य-साहसम् तथा मातृभूमेः रक्षणार्थं तेषां परम-बलिदानम् अभिनन्द्य नमनं कृतम्।

मुख्यमन्त्रिणा उक्तं यत् “पुलिस-स्मृति-दिवसे वयं अस्माकं पुलिसबलस्य अदम्य-साहसम् अभिनन्दामः, भारती-मातुः रक्षणाय तेषां बलिदानानि च स्मरामः।

तेषां निरन्तर-सेवाभावः एव राज्यं सुरक्षितं जनान् च आश्वस्तान् करोति इति।”

मुख्यमन्त्रिणा राज्ये शान्तेः, सुरक्षायाः, नियम-व्यवस्थायाः च पालनार्थं पुलिसकर्मणां निष्ठां योगदानं च प्रशंस्य उक्तम् —

यत् तेषां समर्पणभावः समाजस्य कृते प्रेरणास्रोतः भवति।

हिन्दुस्थान समाचार