Enter your Email Address to subscribe to our newsletters
- मुख्यमंत्री डॉ. यादवस्तिलकेश्वर मंदिर गौशालायामकरोत् गोवर्धन पूजां, गो-अन्नकूटे सम्मिलितः
भोपालम्, 21 अक्टूबरमासः (हि.स.) ।मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ. मोहनयादवः मङ्गलवासरे उज्जयिन्याः तिलकेश्वरमहादेवमन्दिरं गत्वा गोशालायां गोवर्धनपूजां सम्पन्नाम् अकुरुत। मुख्यमन्त्रिणा गोमातुः पूजनं कृतं, तथा च विशालं गो-अन्नकूटं अपि निरीक्षितम्।
मुख्यमन्त्री डॉ. यादवः अवदत् यत्“गोसेवा तथा प्रकृतेः सम्मानं अस्माकं सनातनसंस्कृतेः मूलं शिक्षणं च अस्ति। अद्य सर्वत्र गृहे गृहे गोशाला, ग्रामे ग्रामे गोवर्धनपूजा अपि आयोजिताः सन्ति। गोमाता स्वबच्छकेन सह सर्वेषां जनानां पालनं करोति। भगवान् श्रीकृष्णः ‘गोपालकृष्ण’ इत्यपि प्रसिद्धः। अधुना शासनं जनसामान्यैः सह मिलित्वा सर्वाणि उत्सवानि हर्षोल्लासेन पालयति। दीपावल्याः अनन्तरं दिने गोवर्धनपूजा क्रियते। अस्माकं देशः कृषकानां गोपालकानां च देशः अस्ति। यदा कृषकाः गोवंशश्च उन्नताः भवन्ति, तदा एव दीपोत्सवः अस्माकं सर्वेषां कृते सार्थकः भवति, तदा एव समृद्धिः आगच्छति।”
मुख्यमन्त्रिणा उक्तं यत् गोशालासु प्रत्येकायाः गोमातुः सेवायै शासनात् अनुदानराशिः वर्धिता अस्ति। ये जनाः दुग्धोत्पादनं कर्तुम् इच्छन्ति, तेभ्यः अपि शासनतः अनुदानराशिः दास्यते। “वयं प्रत्येकगृहे गोपालं स्थापयिष्यामः” इति सः उक्तवान्।
मध्यप्रदेशशासनम् अपि सिंचयस्य क्षेत्रं विस्तारयितुं ‘नदी-जोड़ो-अभियानम्’ आरब्धम्। ‘सूर्यगृहयोजना’ नाम्ना कृषकानां कृते सौरपम्प् स्थापने नवतिशतं (९०%) पर्यन्तं अनुदानं दास्यते।
मुख्यमन्त्री डॉ. यादवः अवदत् — “शासनं सोयाबीनफलं प्रति भावान्तरभुगतानयोजनां आरब्धम् अस्ति। सा योजना कृषकानां व्यापारीणां च मध्ये सेतुरूपेण कार्यं करिष्यति। अन्नमण्डीनां मानं व्यापारीभ्यः वर्धिष्यते, कृषकानां सम्मानः अपि वर्धिष्यते।”
तत् अपि सः उक्तवान् यत् शासनं कृषकानां मण्डीव्यापारीणां च हितार्थं कार्याणि कुर्वन्ति। विविधानां फसलीनां उत्पादनसहितं प्रोसेसिंगयूनिट् स्थापने अपि अनुदानं प्रदास्यते। “फूड् प्रोसेसिंग्” क्षेत्रे कृषकाः उपजमण्डीव्यापारीणां च सहकारेण कार्यं कुर्वन्तु। मालवप्रदेशे ‘फूड् पार्क्’ स्थाप्यते, येन कृषकाः स्वां उपजं उत्तममूल्येन विक्रेतुं शक्नुवन्ति, व्यापारीणः अपि निःशङ्कं व्यापारं कर्तुं शक्नुवन्ति।
मुख्यमन्त्री डॉ. यादवः अवदत् — “वोकल् फॉर् लोकल् इत्यस्य उद्देशेन शासनं निरन्तरं प्रयत्नं करोति।” सः सर्वेभ्यः गोवर्धनपूजाया शुभकामनाः दत्तवान्।ततः मुख्यमन्त्रिणा तिलकेश्वरमहादेवस्य अभिषेकः पूजनं च कृतं, प्रदेशवासिनां उन्नतेः मंगलमयजीवनस्य च प्रार्थना कृतम्।
अस्मिन् अवसरे विधायकः अनिलजैनः कालुहेडाः, चिन्तामणिमालवीयः, नगरनिगमसभापतिः कलावतीयादवा, संजयाग्रवालः, मनीषतल्लेरा, नारायणयादवः, रविसोलङ्की, एडीजी उमेशजोगा, कलेक्टरः रोशनकुमारसिंहः, पुलिसअधीक्षकः प्रदीपशर्मा, नगरनिगमायुक्तः अभिलाषमिश्रः च नागरिकैः सह उपस्थिताः आसन्।कार्यक्रमे मण्डीव्यापारीसंघस्य अध्यक्षः जितेन्द्राग्रवालः स्वागतभाषणं दत्तवान्। सः उक्तवान् — “मुख्यमन्त्री डॉ. यादवः सदैव कृषकानां व्यापारीणां च हितार्थं कार्यं कृतवान्।” व्यापारीसंघेन मुख्यमन्त्रिणं स्मृतिचिह्नं गोमूर्तिं च प्रदाय सम्मानः कृतः। कार्यक्रमस्य संचालनं आभारप्रदर्शनं च जगदीशपाञ्चालेन कृतम्।
---
हिन्दुस्थान समाचार