Enter your Email Address to subscribe to our newsletters
भोपालम्, 21 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहन यादवः भारतीयचलच्चित्रजगतः सुप्रसिद्धनटस्य, अमरहास्यकलाकारस्य गोवर्धनम् असरानी इत्यस्य निधनप्रसङ्गे शोकम् व्यक्तवान्। मुख्यमन्त्री डॉ॰ यादवः मङ्गलवासरे सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र उक्तवान् यत् — “असरानी महोदयस्य गमनम् कलाक्षेत्रस्य कृते अपूरणीया हानिः अस्ति। हास्यवाङ्मये तस्य योगदानं सदैव अविस्मरणीयं भविष्यति।” मुख्यमन्त्री डॉ॰ यादवः भगवतः महाकालस्य समक्षं प्रार्थितवान् यत् दिवङ्गतस्य पुण्यात्मनः शान्तिः भवतु, तथा च तस्य परिजनानां प्रशंसकानां च एतं गभीरं दुःखं सहनाय शक्तिः प्रदीयताम्।
हिन्दुस्थान समाचार / अंशु गुप्ता