Enter your Email Address to subscribe to our newsletters
- अन्नकूटे सम्मिलितः प्रसादं च अगृह्णात्, कथितवान्- गौ माता पालनीया करणीया च सेवा
भोपालम्, 21 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य उपमुख्यमन्त्री जगदीशदेवडामहाभागः मङ्गलवारे दीपावल्याः द्वितीयदिने मन्दसौरनगरे गुरुदेवकमलमुनिचिन्मयानन्दगौशालायां लामगरी-नगरी इत्यत्र गोवर्धनपूजनं कृतवान्। तेन गौमातरं गुडरोटिकाभ्यां भोजनं कारितम्, गवां बच्छकान् च सस्नेहम् आलिलिहे।
अस्मिन् अवसरे एव उपमुख्यमन्त्री देवडामहाभागः सर्वेभ्यः दीपावलीगोवर्धनयोः पर्वयोः शुभाशंसाः दत्त्वा अवदत् — अस्माभिः सर्वैः गौसेवा गौपालनं च कर्तव्यम्। अस्माकं सनातनसंस्कृतिः अस्मान् प्रकृतिसम्बन्धं शिक्षयति। गौमाता स्वबच्छकेन सह अस्माकं सर्वेषां पालनं करोति। सः उक्तवान् यत् गौशालायां विद्युत्सुविधानां शीघ्रमेव व्यवस्थां करिष्यामि।
तेन अपि उक्तं यत् सोयाबीनसस्यस्य कृते “भावान्तरभुगतानयोजना” आरब्धा अस्ति, या कृषकानां व्यापारीणां च मध्ये सेतुभूतां कार्यं करिष्यति। कार्यक्रमे उपमुख्यमन्त्री देवडेन गौशालासेवकान् सम्मानितान् कृत्वा अन्नकूटप्रसादं स्वीकृतम्।
उपमुख्यमन्त्री देवडामहाभागः उक्तवान् — “आत्मनिर्भरभारतस्य मार्गः स्वदेशीत्वेन एव गच्छति। लघु-कुटीरउद्योगनिर्मितानि वस्तूनि क्रयाम, प्रत्येकगृहे स्वदेशीवस्तुप्रयोगं कुर्याम। गृहे गृहे स्वदेशीभावनां स्थापयाम।”
तेनोक्तं यत् “२०४७ तमे वर्षे भारतं विकसितराष्ट्ररूपेण स्थापनीयम्। तस्मात् अस्माभिः स्वदेशीनि द्रव्याणि एव ग्राह्याणि।”
अस्मिन् अवसरे लोकसभासांसदः सुधीरगुप्तः, राज्यसभासांसदः बंशीलालगुर्जरः, जनप्रतिनिधयः, अधिकारिणः, ग्रामजनाश्च उपस्थिताः आसन्॥
हिन्दुस्थान समाचार