Enter your Email Address to subscribe to our newsletters
भोपालम्, २१ अक्टूबरमासः (हि.स.)।
मध्यप्रदेशे दीपावल्यां निशा पर्यन्तम् अग्निक्रीडा कृता। तेन पुनः वायुगुणस्य संकटं गम्भीरं जातम्। राज्यस्य अनेकेषु प्रमुखेषु नगरेषु दिवाल्याः रात्रौ विस्फोटकानाम् अधिकतया, शीतलवायुनां प्रवाहस्य च अल्पतया वायुगुणसूचकाङ्कः (एक्यूआई) भयस्तरे प्राप्तः। या वायु सोमवासरस्य सायं पञ्चवादने पर्यन्तं सामान्यावस्थायाम् आसीत्, सा रात्रेः नववादनानन्तरं अनेकषु नगरेषु विषवती अभवत्। प्रदूषणेन भोपाल-इन्दौर-ग्वालियर-सागर-सिङ्गरौली-नामकेषु नगरेषु वायुगुणसूचकाङ्कः त्रिशताधिकः (३००+) जातः, यः दूषितवायुश्रेण्यां गण्यते।
मध्यप्रदेशप्रदूषणनियन्त्रणमण्डलेन मङ्गलवासरे प्रकाशितेषु आङ्केषु दीपाल्याः रात्रौ विस्फोटजन्येषु सूक्ष्मकणेषु महद्वृद्धिर्दृष्टा। तस्मिन्नवेले रात्रौ तापमानस्य पतनं वायोर्गतेश्च ह्रासः जातः, येन एते प्रदूषकाः वायौ स्थगिताः सञ्जाता इति एक्यूआई अनेकहोराभ्यन्तरे अतीवदुष्टश्रेण्यां स्थिरः अभवत्।
इन्दौरे वायुः सर्वाधिकदूषिता जाता, यत्र लघुग्वालतोल्यां एक्यूआई ३६१ अभवत्। भोपालस्य कोहेफिजायां ३३६, ग्वालियरस्य महाराजबाडायां ३३३, सागरनगरे ३४१, सिङ्गरौल्यां ३०६ सूचकाङ्कः प्राप्तः। एतेषां नगरेषु मङ्गलवासरप्रातः पर्यन्तं वायुर्दूषिता आसीत्, येन जनाः नेत्रेषु दाहं, श्वासकष्टं च अनुभवन्।
दीपावल्याः सायं पञ्चवादनपर्यन्तम् अधिकांशेषां नगराणां वायुः “सन्तोषजनक-मध्यमश्रेणीषु” आसीत्।
किन्तु रात्रेः नववादने पर्यन्तं वायुगुणसूचकाङ्कः शीघ्रं ववृद्धः।
अनन्तरं प्रातः 9:30 वादने सर्वेषु प्रमुखेषु नगरेषु सः त्रिशताधिकः अभवत्।
औसततः केवलं षोडशहोराभ्यन्तरे एव प्रदेशस्य वायुः एकशतपञ्चाशत् तः द्विशतपञ्चाशत् वायुगुणसूचकाङ्कपर्यन्तं अधिकप्रदूषिता अभवत्।
विशेषज्ञाः वदन्ति यदा एक्युआई त्रिशताधिकः भवति तदा सः “अतीवदुष्टश्रेणी” इति कथ्यते। तस्मिन् काले वायौ विद्यमानाः सूक्ष्मकणाः फुफ्फुसयोः पर्यन्तं प्राप्नुवन्ति, येन अस्थमा, ब्रॉन्काइटिस् इत्यादयः श्वासरोगाः सम्भवन्ति। विशेषतः बालकाः वृद्धाश्च श्वासरोगिणश्च विशेषसावधानां वहन्तु। पर्यावरणविशेषज्ञाः वदन्ति — “एषः कालः केवलं उत्सवस्य न, अपि तु दायित्वेन आचरितव्यः।” प्रति वर्षं दीपावल्यनन्तरं वायुगुणः पतति, तस्य प्रभावः सप्ताहान्तेभ्यः अपि दीर्घकालं तिष्ठति। समाजेन संयुक्त्य प्रदूषणनिवारणाय गम्भीरकर्माणि करणीयानि। मध्यप्रदेशप्रदूषणनियन्त्रणमण्डलेन अस्मिन् वर्षे हरितविस्फोटकानां प्रयोगाय आह्वानं कृतं, किन्तु तस्य व्यापकः प्रभावः न दृश्यते। आगामिकाले कठोरनिग्रहेण जागरूकतायाः च अभियानानि आवश्यकानि, येन वायोः विषमिश्रणं न स्यात्।
पर्यावरणविशेषज्ञः सुभाषः सी. पाण्डे इत्याख्यः उक्तवान् — “रात्रिं पर्यन्तं विस्फोटकप्रज्वलनं, शीतवायुः च प्रदूषकत्वेन हानिकारकवायुः धूलिकणानां च अधःस्थितिं करोति, येन वायु पूर्वत एव अधिकदूषिता भवति।” सः अपि उक्तवान् — “वायुगुणसूचकाङ्कः द्विशताधिकः पञ्चशतपर्यन्तं भयङ्करः भवति।” प्रदूषणात् नेत्रकण्ठत्वगादिषु दाहः, श्वासकष्टम्, शिरःपीडा, भ्रमः च जायते। तथा उच्चविस्फोटध्वनिभ्यः कर्णेषु घोषः, श्रवणकठिनता, निद्राभङ्गः च सम्भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता