Enter your Email Address to subscribe to our newsletters
केदारघाट्याः प्रत्येक कणः शिवमयः,बाबा प्रार्थितो विश्व कल्याणस्य आशीर्वादाय -राज्यपालः
रुद्रप्रयागः, 21 अक्टूबरमासः (हि.स.)।उत्तराखण्डराज्यपालः लेफ्टिनेंट् जनरल् गुरमीत् सिंहः (सेवानिवृत्तः) मङ्गलवासरे केदारनाथधामं प्रति आगत्य भगवतः केदारेश्वरस्य दर्शनम् अकरोत्। तस्मिन् अवसरः सः रुद्राभिषेकपूजनं कृत्वा विश्वकल्याणं, मानवसमृद्धिं, उत्तराखण्डराज्यस्य च सततविकासम् अभ्यर्थयत्।
प्रातःकाले अष्टवादनं पंचचत्वारिंशद्मिनिटेभ्यः (8.45) समये राज्यपालस्य धामप्रवेशे अपरजिलाधिकारी श्यामसिंहराणा तथा मुख्यविकासाधिकारी राजेन्द्रसिंहरावतः हेलीपैडे पुष्पगुच्छं दत्त्वा स्वागतं कृतवन्तौ। राज्यपालः पदयानं कृत्वा मन्दिरं प्राप्तवान्। तत्र भगवतः केदारनाथस्य अभिषेकं पूजनं च विधिवत् सम्पन्न्य मानवकल्याणं राज्यस्य च उन्नतिं प्रार्थितवान्।
राज्यपालः उक्तवान्— “केदारघाट्याः प्रत्येकः कणः शिवमयः एव। अत्र पर्वतेषु भगवतः शिवस्य साक्षात् सन्निधिः अनुभवते। अस्याः पवित्रभूमेः स्पर्शेनेव मनः ध्यानमग्नं भवति।”
पूजनान्ते राज्यपालः मन्दिरप्राङ्गणे उपस्थितान् श्रद्धालून् अभिनन्द्य, “जय बाबा केदार” इति घोषं कृतवान्। तेन धामे प्रवर्तमानानां पुनर्निर्माणकार्यानां स्थलीयनिरीक्षणं कृत्वा विस्तृतां जानकारीं लब्धवान्।
अवसरे तेन उक्तं यद्“गतत्रिवर्षेषु यात्राव्यवस्थापनं पुनर्निर्माणं च अतीव प्रशंसनीयं जातम्।”
सः जिलाप्रशासनस्य, मन्दिरसमितेः, पुलिसविभागस्य, एन.डी.आर.एफ्., एस.डी.आर.एफ्. इत्यादीनां सहयोगसंस्थापनां च प्रशंसा अकरोत्।
अस्योक्तिः— “चतुर्धामयात्रां सफलां, सुरक्षितां, श्रद्धाल्वनुकूलां च कर्तुं सर्वेषां योगदानं अत्यन्तं प्रशंसार्हम्।”
राज्यपालः यात्रायां नियुक्तान् मन्दिरसमितेः तथा जिलाप्रशासनस्य अधिकारीन्-कर्मचारिणः प्रशंस्य तेषां मनःबलं वर्धितवान्। अवदत्— “प्रशासनं, पुलिसविभागः, सेवादलः च सर्वे श्रद्धालूनां सुविधा-संपन्नं यात्रानुभवं दातुं महत्त्वपूर्णं कार्यं कुर्वन्ति। सर्वान् प्रेरयन् उक्तवान्— “श्रद्धालवः कदापि असुविधां न अनुभवेयुः, इत्यर्थं प्रत्येकः कर्मचारीः पूर्णनिष्ठया सेवाभावेन च कार्यं कुर्यात्।”
अस्मिन् अवसरे बी.के.टी.सी. मुख्यकार्याधिकारी श्रीविजयथपलियालः, उपजिलाधिकारी अनिलशुक्लः, केदारसभाध्यक्षः राजकुमारतिवारी, महामन्त्री राजेन्द्रतिवारी, मन्त्री अंकितप्रसादसेमवालः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार