राष्ट्रिय समन्वय समितेः उपवेशनं 30 तः
रांची, 21 अक्टूबरमासः (हि.स.)।आदिवासी-अधिकार-राष्ट्रिय-मञ्चस्य राष्ट्रिय-समन्वय-समित्याः उपवेशनम् अक्टोबरमासस्य त्रिंशत् एवं एकत्रिंशत् (३०–३१) दिनाङ्कयोः नामकुम् नगरमध्ये भविष्यति। अस्य उपवेशनार्थम् एकपञ्चाशत्सदस्ययुक्ता स्वागतसमिति निर्मिता। तस
राष्ट्रिय समन्वय समितेः उपवेशनं 30 तः


रांची, 21 अक्टूबरमासः (हि.स.)।आदिवासी-अधिकार-राष्ट्रिय-मञ्चस्य राष्ट्रिय-समन्वय-समित्याः उपवेशनम् अक्टोबरमासस्य त्रिंशत् एवं एकत्रिंशत् (३०–३१) दिनाङ्कयोः नामकुम् नगरमध्ये भविष्यति।

अस्य उपवेशनार्थम् एकपञ्चाशत्सदस्ययुक्ता स्वागतसमिति निर्मिता।

तस्यां समितौ झारखण्ड-उच्चन्यायालयस्य पूर्वन्यायाधीशः श्रीरत्नाकरभेंगरा अध्यक्षपदे नियुक्तः, रातूनगरस्य पूर्वप्रमुखः श्रीसुरेशमुंडा कार्यकारी-अध्यक्षपदे, तथा श्रीसुखनाथलोहरा स्वागत-सचिवपदे नियोजिताः सन्ति।

एषा सूचना मञ्चस्य पक्षेण प्रकाशितया प्रेस-विज्ञप्त्या ज्ञापिता।

---------------

हिन्दुस्थान समाचार