Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 21 अक्टूबरमासः (हि.स.)।प्रसिद्धः हास्यनटः गोवर्धनअसराणी इत्यस्य सोमवासरस्य सायंकाले निधनं जातम्। सः चतुरशीतिवर्षीयः (८४) अवस्थायां अन्तिमश्वासं लब्धवान्। अस्य निधनसम्बन्धिनि दुःखवार्तायां प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाह, लोकसभायां विपक्षनेता राहुलगान्धी, दिल्लीभाजपाध्यक्षः वीरेंद्रसचदेवः, राजस्थानपूर्वमुख्यमन्त्री अशोकगहलोतः च, तथा चलच्चित्रक्षेत्रस्य अनेकाः प्रमुखाः व्यक्तयः अपि, अभिनेता विषये भावपूर्णां श्रद्धाञ्जलिं अर्पितवन्तः।
प्रधानमन्त्री नरेन्द्रमोदी महोदयः सोशियलमाध्यमे ‘एक्स्’ इत्यस्मिन् लिखितवान् यत् “गोवर्धनअसराणीमहाभागस्य निधनवार्तया अत्यन्तं दुःखितः अस्मि। सः एकः प्रतिभाशाली मनोरञ्जकः, सत्यं च बहुमुखप्रतिभाशाली कलाकारः आसीत्, यस्य अभिनयेन अनेकपीढीनां दर्शकाः हृष्टाः सन्ति। भारतीयचलच्चित्रजगति तेन कृतं योगदानं सदैव स्मरणीयं भविष्यति। तस्य परिवाराय प्रशंसकानां प्रति मम संवेदनाः।”
गृहमन्त्री अमितशाह लिखितवान् यत् “अभिनेता असराणीमहाभागस्य निधनं अत्यन्तं दुःखदं। सः जीवनपर्यन्तं भारतीयसिनेमायां योगदानं दत्त्वा, हास्येन सह लक्षशः जनानां हृदयेषु स्थानं प्राप्तवान्। ईश्वरः तस्य आत्मनः शान्तिं ददातु, परिवाराय च दुःखसहनशक्तिं प्रदद्यात्।”
रक्षामन्त्री राजनाथसिंह अपि एक्स् माध्यमे लिखितवान्यत्
“प्रसिद्धचरित्रनटस्य असराणीमहाभागस्य निधनं दुःखजनकं। सः एकः निपुणः अभिनेता हास्यकलेः च आचार्यः आसीत्। तस्य अभिनयसमयः, बहुमुखीप्रतिभा च, असङ्ख्यान् जनान् हर्षयामास। तस्य परिवारस्य प्रति मम संवेदनाः।”
लोकसभायां विपक्षनेता राहुलगान्धी अपि अवदत्—
“भारतीयचलच्चित्रजगतः दिग्गजः अभिनेता गोवर्धनअसराणी इत्यस्य निधनवार्ता अत्यन्तं दुःखदाऽस्ति। तस्य अभिनयेन दशकेभ्यः अधिककालं जनानां मुखेषु हास्यमेव प्रकटितम्।”
पूर्वमुख्यमन्त्री अशोकगहलोतः अवदत् यत्“चलच्चित्रे ‘शोले’ इत्यस्मिन् स्वकियकिरदारेण यः प्रसिद्धिं प्राप्तवान्, सः जयपुरनिवासीः गोवर्धनअसराणीमहाभागः निधनं प्राप्नोत् इति वार्ता दुःखदा। तेन चलच्चित्रजीवने यानि नाना-पात्राणि अभिनीतानि, तानि सर्वाणि स्मरणीयानि भविष्यन्ति। दिवंगतात्मनः शान्त्यर्थं, तस्य परिवारस्य धैर्यार्थं च, मम प्रार्थना।”
दिल्लीमुख्यमन्त्री रेखागुप्ता एक्स् माध्यमे लिखितवती—
“असराणीमहाभागस्य निधनं अत्यन्तं दुःखदं। पञ्चदशकेभ्यः अधिके तस्य दीर्घकालेन चलचित्रक्षेत्रे अप्रतिमः हास्यः, सहजः अभिनयः च लक्षशः दर्शकान् हसयामास। ‘अङ्ग्रेजानां समयस्य जेलरः’ इति यथा तस्य पात्राणि भारतीयचलच्चित्रे अमिटं चिह्नं न्यवसन्। तस्य निधनात् चलचित्रजगति अपूरणीया क्षतिः जाता। अस्माकं संवेदनाः तस्य परिवारप्रशंसकभ्यः सह। ईश्वरः तस्य आत्मनः शान्तिं ददातु।”
वीरेंद्रसचदेवः अपि एक्स् माध्यमे लिखितवान् यत्“महानः अभिनेता गोवर्धनअसराणी इत्यस्य निधनं श्रुत्वा अत्यन्तं दुःखितः अस्मि। तस्य अद्भुतबहुमुखप्रतिभा, असामान्यहास्यशैली च जनानां मुखेषु सदैव हास्यं बिखरयत्। भारतीयसिनेमायाः स्वर्णयुगे तस्य अभिनयः अमरः भविष्यति।”
अभिनेता अनुपमखेरः तस्मै श्रद्धाञ्जलिं दत्त्वा लिखितवान्—
“गतसप्ताहे एव अस्माकं संवादः अभूत्, च तेन मम अभिनयविद्यालये मास्टरक्लास् पठितुं योजनां कृतवान्। असराणी केवलं हास्यनटः न आसीत्, किन्तु एकः उत्कृष्टः शिक्षकः अपि आसीत्। तेन ‘एफ.टी.आई.आई.’ संस्थायाम् अध्यापनं कृतम्, अनेके कलाकाराः तस्य मार्गदर्शनेन निखिलाः अभवन्। प्रिय असराणी, स्वव्यक्तित्वेन जगत् श्रेष्ठं कृतवान्, तव स्मृतिः पर्दायाम् अपि पर्दापश्चात् च सर्वदा स्थास्यति।”
अभिनेता अक्षयकुमारः अपि एक्स् माध्यमे लिखितवान्—
“असराणीजीस्य निधनवार्तया स्तब्धः अस्मि। गतसप्ताहे एव ‘हैवान्’ चित्रस्य चित्रग्रहणे अस्माभिः मिलित्वा आलिङ्गनं कृतम्। तस्य हास्यसमय-नियन्त्रणम् अद्वितीयम् आसीत्।”
एवं गोवर्धनअसरानेः निधनं भारतीयचलच्चित्रजगतः महानां क्षतिं सूचयति। तस्य स्मृतयः, हास्यं, सौम्यता च, दर्शकानां हृदयेषु नित्यं जीविष्यन्ति।
------------
हिन्दुस्थान समाचार