दीपावल्यां देशे समग्रे कीर्तिमानं 6.05 लक्ष कोटिमितानां रुप्यकाणां व्यापारः
नव दिल्‍ली, 21 अक्‍ टूबरमासः (हि.स)।अस्मिन् वर्षे दीपावल्यां देशव्यापी विक्रये अभूतपूर्वं षड्‌लक्षपञ्चसहस्रकोट्यधिकरूप्यकाणां (६.०५ लक्षकोटिमितानां) व्यापारः सम्पन्नः, यस्मिन् ५.४० लाख कोट्यधिकरूप्यकाणां वस्तुविक्रयः अभवत्। “ऑल इण्डिया ट्रेडर्स मह
कैट के लोगो का प्रतीकात्‍मक चित्र


नव दिल्‍ली, 21 अक्‍ टूबरमासः (हि.स)।अस्मिन् वर्षे दीपावल्यां देशव्यापी विक्रये अभूतपूर्वं षड्‌लक्षपञ्चसहस्रकोट्यधिकरूप्यकाणां (६.०५ लक्षकोटिमितानां) व्यापारः सम्पन्नः, यस्मिन् ५.४० लाख कोट्यधिकरूप्यकाणां वस्तुविक्रयः अभवत्।

“ऑल इण्डिया ट्रेडर्स महासंघस्य वाणिज्यसङ्घटनेन मङ्गलवारे उक्तं यत् मालसेवासुल्कस्य (जी.एस्.टी.) दरछेदनं, दृढं उपभोक्तृविश्वासं च कारणीकृत्य अस्मिन् वर्षे दीपावल्यां अभूतपूर्वा विक्रयसंख्या अभिलिखिता।

कैट्-संघटनस्य अनुसन्धानशाखा “कैट् रिसर्च् एण्ड ट्रेड् डेवलपमेन्ट् सोसाइटी” इत्यनेन देशस्य षष्टिः प्रमुखवितरणकेन्द्राणां आधारेण विस्तीर्णा “दीपावली २०२५” विक्रयरिपोर्ट् प्रकाशिताऽभूत्।

तस्यां रिपोर्ट् अनुसारं अस्मिन् वर्षे सर्वदेशे दीपोत्सवे समग्रविक्रयः ६.०५ लाख कोट्यधिकरूप्यकपर्यन्तं प्राप्तः, यस्मिन् ५.४० लाख कोट्यधिकरूप्यकाणां वस्तुव्यवहारः, ६५ सहस्रकोट्यधिकरूप्यकाणां सेवाव्यवहारश्च सम्मिलितौ।

एषः भारतवाणिज्यइतिहासेऽद्यावधि सर्वातिभारः उत्सवीयव्यवहारः इति निर्दिष्टम्।

दिल्लीचांदनीचौकक्षेत्रस्य सांसदः, कैट्-संघटनस्य राष्ट्रियमहामन्त्री प्रवीनखण्डेलवालनामधेयः अवदत्— “प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘वोकल् फॉर् लोकल्’ तथा ‘स्वदेशीदीपावली’ इत्येतौ आह्वानौ जनमानसे गभीरं प्रतिध्वनितौ।

अस्मिन् वर्षे ८७ प्रतिशतोपभोक्तारः भारतीयवस्तूनि एव प्राधान्येन अपनिन्युः, यस्मात् चीननिर्मितवस्तूनां मांगं तीव्रतया न्यूनता प्राप।

तेन उक्तं यत् व्यापारिणः अवदन्— भारतीयनिर्मितवस्तूनां विक्रयः गतवर्षस्य तुलनया २५ प्रतिशतवृद्धिं प्राप्तवान्।

दीपावली २०२५ विक्रयाङ्काः अपि गतवर्षस्य (४.२५ लाख करोड़) अपि २५ प्रतिशतवृद्धिं दर्शयन्ति।

महामन्त्री खण्डेलवालः उक्तवान्— “मुख्यतया अकॉर्पोरेट् (गैर–संघटित) तथा पारम्परिकबाजाराः समग्रव्यवहारे ८५ प्रतिशतयोगदानं कृतवन्तः, येन भारतीयखुद्रव्यापारिणां लघुव्यापारिणां च उज्ज्वला पुनरागमनं सूचितम्।”

कैट्-संघटनस्य राष्ट्रियाध्यक्षः बी.सी. भारतीया नामधेयः प्रमुखोत्सवीयवस्तूनां व्यापारविभागानां प्रतिशतयोगदानं विस्तरेण निर्दिष्टवान् —

किराण–एफ्.एम्.सी.जी. (दैनिकोपभोग्यवस्तूनि) – १२%, सुवर्णरजतवस्तूनि – १०%, इलेक्ट्रॉनिक्स्–इलेक्ट्रिकल्स् – ८%, उपभोक्तृदृढवस्तूनि – ७%, रेडीमेडपरिधानानि – ७%, उपहारवस्तूनि – ७%, गृहसज्जावस्तूनि – ५%, गृहसामग्री–फर्निचर – ५%, मिष्टान्न–नमकीन – ५%, वस्त्रवर्गः – ४%, पूजनसामग्री – ३%, फल–मेवानि – ३%, बेकरी–कन्फेक्शनरी – ३%, पादत्राणवर्गः – २%, तथा अन्यविविधवस्तूनि – १९% इत्येवम्।

एवं भारतदेशे २०२५ तमे वर्षे दीपोत्सवकाले सर्वातिभारः आर्थिकविकासः प्रकाशमानः अभवत्॥

---------------

हिन्दुस्थान समाचार