पुलिस स्मरण दिवसे आरक्ष्यधीक्षको हुतात्मभ्यः पुलिस कर्मिभ्योऽददात् भावपूर्णं श्रद्धांजलिम्
पूर्वी चंपारणम्, 21 अक्टूबरमासः (हि.स.)।पुलिस-स्मरण-दिनाङ्के मङ्गलवासरे जिला-पुलिसदल-मुख्यालये एस्.पी. स्वर्णप्रभातः शहीद-पुलिसकर्मिणः प्रति भावपूर्णं श्रद्धाञ्जलिं अर्पितवान्। अस्मिन् अवसरे जिला-पुलिस-केंद्रे स्थापिते हुतात्म-स्मारकस्थले सङ्गृही
पुलिस स्मरण दिवस पर शहीदो को सलामी देते एसपी


पूर्वी चंपारणम्, 21 अक्टूबरमासः (हि.स.)।पुलिस-स्मरण-दिनाङ्के मङ्गलवासरे जिला-पुलिसदल-मुख्यालये एस्.पी. स्वर्णप्रभातः शहीद-पुलिसकर्मिणः प्रति भावपूर्णं श्रद्धाञ्जलिं अर्पितवान्।

अस्मिन् अवसरे जिला-पुलिस-केंद्रे स्थापिते हुतात्म-स्मारकस्थले सङ्गृहीते पुलिस-अधिक्षकः सहितः सर्वे वरिष्ठ-पदाधिकारिणः, पुलिसदलस्य सैनिकाः च समवेताः मौनं धारयित्वा हुतात्मनां शान्त्यर्थं प्रार्थना कुर्वन्तः तेभ्यः प्रणामम् अर्पितवन्तः।

एस्.पी. स्वर्णप्रभातः स्वसंबोधने उक्तवान्यत्

“शहीदानां बलिदानम् अस्माकं सर्वेषां कृते प्रेरणादायकं अस्ति। एषः सर्वेभ्यः कर्तव्यपथे निष्ठया संलग्नेषु संबलं प्रदत्तुमर्हति।”

सः अपि उक्तवान् यत्

“पुलिस-स्मरण-दिवसः केवलं वार्षिकोत्सवस्य आचरणम् एव न, किन्तु देशस्य समाजस्य सुरक्षा, ऐक्यं अखण्डता च प्रति हुतात्म-सैनिकानां सम्मानं प्रकटयितुं पवित्रः अवसरः अस्ति।

तेषां बलिदानं समर्पणं च अस्माकं प्रतिबद्धतां दृढीकुर्यात्।”

---------------

हिन्दुस्थान समाचार