मुख्यमन्त्रिणा सायेन उक्तम्—सन्तानां कृपया जनतायाः विश्वासेन एव सुशासनस्य दीपोत्सवः सम्भावितः
मुख्यमंत्री विष्णुदेवसायः अद्य रायगढजनपदस्य लैलूंगातहसीलस्थे भुईयांपानिग्रामे आगत्य गुरुधामे आयोजिते दीपमहोत्सवे सम्मिलितवान्
गुरुधाम में आयोजित दीप महोत्सव कार्यक्रम


गुरुधाम में आयोजित दीप महोत्सव कार्यक्रम


तत्र सः स्वस्य आराध्ययोः सन्तयोः गुरुदेवस्वामि धनपतिपण्डा प्रेमशीला पण्डायाश्च प्रतिमयोः समीपे नमस्कृत्य प्रदेशवासिनां सुखशान्तिसमृद्धिप्रसंन्नतायाः च मंगलकामनाम् अकरोत्।

रायपुरम‌् , 21 अक्टुबरमासः (हि.स.) मुख्यमंत्री सायः दीपावल्याः पावनसन्दर्भे हार्दिकशुभाशंसाः दत्वा अवदत्—“अयं दीपोत्सवः सर्वेषां गृहेषु ज्योतिं प्रसारयतु, सर्वेषां जीवनम् अपि सुखसमृद्धिशान्तिप्रेमप्रकाशेन आलोकयतु।” सः अवदत्—“गुरोः आशीर्वादः सर्वदा अस्मासु वर्तताम्।” ततः सः शिवमन्दिरे गत्वा शिवलिङ्गे जलाभिषेकं कृतवान्, हनुमानमन्दिरं वटवृक्षं च पूजयामास।

मुख्यमंत्री उक्तवान्—“एषा सन्तानां प्रदेशजनतायाश्च कृपा एव या एकस्य कृषकपुत्रस्य मुख्यमंत्रीपदप्राप्तिं सम्भावितवती।” तेन अवोचि—तस्य 22 मासानां कार्यकाले प्रधानमन्त्रिणः श्रीनरेन्द्रमोदि गारण्टीयोजनाः भूमौ अवतरिताः, एतत् तस्य सर्वकारस्य परमप्राथम्यं। छत्तीसगढराज्ये जनविकासाय राज्यसर्वकारः सुशासनपारदर्शिताविकाससंकल्पेन कार्यं करोति।

मुख्यमंत्री अवदत्—कृषकानां द्विवर्षिकं बोनसं इति प्रदत्तम्। धानखरीदीसीमा 21 क्विंटल् प्रति एकरं कृतम्। धानस्य मूल्यं 3100 रूप्यकाणि प्रति क्विंटल् निश्चितम्। “महतारी वन्दन योजना” अन्तर्गतं महिलाभ्यः प्रतिमासं 1000 रूप्यकाणाम् आर्थिकसहाय्यं दीयते। “प्रधानमन्त्री आवास योजना” अन्तर्गतं 18 लक्षाणि आवासाः स्वीकृताः। “ई-गवर्नन्स्” इति प्रणाली आरब्धा, भ्रष्टाचारविरुद्धं कठोरकार्यवाही च क्रियते। भूमिहीनमजदूरसहाय्ययोजना, तेंदूपत्ताखरीदी 5,500 रूप्यकाणि प्रति मानकबोरा, “रामललादर्शन योजना”, “मुख्यमन्त्रितीर्थदर्शन योजना” च बहवः जनहितकारीयोजनाः सफलतया संचालिताः।

तस्मिन् कार्यक्रमे मुख्यमंत्री सायेन घोषिता—गुरुधामे एककोटिरूप्यकाणां व्ययेन सर्वसुविधायुक्तभवननिर्माणम्, “महतारी सदन” इत्यस्य कृते 29 लक्षरूप्यकाणि, गुरुधामपरिसरे हाइमास्टदीपस्थापनम्, तालाबसौन्दर्यवर्धनम्, बोरखननम्, अन्यान्यावश्यकताः च।

लोकसभासांसदः राधेश्यामराठिया अपि सर्वेभ्यः दीपावलिशुभाशंसाः दत्तवान्। सः उक्तवान्—“अस्मिन् लोके गुरोः श्रेष्ठं नास्ति। गुरु एव सः प्रकाशस्तम्भः यः अस्मान् अन्धकारपूर्णजीवनात् उद्धृत्य ज्ञानानुशासननैतिकतायाः पथे स्थापयति। गुरोः प्रेरणा एव जीवनस्य फरमः आनन्दः, आत्मिकशान्तिः, परमसुखं च प्रददाति। तस्य मार्गदर्शनं जीवनम् अर्थपूर्णं करोति।”

तस्मिन् कार्यक्रमे राज्यसभासांसदः देवेंद्रप्रतापसिंहः, महापौरः जीवर्धनचौहानः, सन्तसनातनधर्मदेवीसन्तसमाजाध्यक्षः सहदेवपण्डा, जनपदपंचायत्तुपाध्यक्षः दीपकसिदारः, सत्यानंदराठियः, स्थानीयजनप्रतिनिधयः, च बहवः श्रद्धालवः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता