मध्यप्रदेशे आरक्षकस्मृतिदिवसे अद्य ११ वीरगताः आरक्षकेभ्यः श्रद्धाञ्जलिः दीयते
भोपालम् 21 अक्तुबरमासः (हि.स.)। यथा प्रतिवर्षं तथा अस्मिन्सम्वत्सरेऽपि अद्य (21 अक्तुबरमासे) प्रदेशे सर्वत्र वीरगत-आरक्षकान् प्रति श्रद्धाञ्जल्यार्पणाय आरक्षकस्मृतिदिवसस्य आयोजनं क्रियते। भोपाले लालयात्राक्षेत्रे स्थिते वीरगतस्मारके अस्याः शोभायात्
कार्यक्रम की रिहर्सल की तस्वीर


कार्यक्रम की रिहर्सल की तस्वीर


भोपालम् 21 अक्तुबरमासः (हि.स.)। यथा प्रतिवर्षं तथा अस्मिन्सम्वत्सरेऽपि अद्य (21 अक्तुबरमासे) प्रदेशे सर्वत्र वीरगत-आरक्षकान् प्रति श्रद्धाञ्जल्यार्पणाय आरक्षकस्मृतिदिवसस्य आयोजनं क्रियते। भोपाले लालयात्राक्षेत्रे स्थिते वीरगतस्मारके अस्याः शोभायात्रायाः आयोजनं भविष्यति, यस्मिन् राज्यपालः मंगुभाई पटेल:, मुख्यसचिवः अनुराग: जैन: , महानिदेशकः कैलाश: मकवाना इत्यादयः अधिकारिणः सहभागं करिष्यन्ति। प्रदेशारक्षकविभागे ११ आरक्षकाः वीरगताः, तेषां श्रद्धाञ्जलिः दीयते।

अस्मिन्समये आरक्षकस्मृति शोभायात्रायाः आयोजनं भविष्यति। वीरगतस्मारके राज्यपालादयः सर्वे आरक्षकाधिकारिणः क्रमशः पुष्पचक्राण्यर्पयिष्यन्ति। शोभायात्रायाः अनन्तरं राज्यपालः, मुख्यसचिवः, महानिदेशकश्च वीरगतपरिजनैः सह साक्षात्करिष्यन्ति। तान् एतद् आश्वासनं भविष्यति यत् ते आरक्षककुलस्य अविभाज्यभागाः सन्ति, च आरक्षकविभागः तेषां सहायतायाः कृते सदा तत्परः भविष्यति।

उल्लेखनीयं यत् लद्दाखप्रदेशे 'हॉट् स्प्रिंग्स्' नाम्न: स्थले षोडशसहस्रफुटोन्नते स्थाने २१ अक्तुबर १९५९ तमे वर्षे करंसिंह-उपनिरीक्षकस्य नेतृत्वे सी.आर्.पी.एफ्. दलः निरीक्षणं कुर्वन् आसीत्। तदा चीनदेशीयसेनया सह युद्धे दश आरक्षकाः वीरगताः अभवन्। तेषां स्मृत्यर्थं एषः दिवसः देशस्य सर्वरक्षकाणां कृते प्रतिवर्षं आचर्यते।

अस्मिन्सम्वत्सरे मध्यप्रदेशारक्षकविभागस्य ११ आरक्षकाः देशाय बलिदानं दत्तवन्तः। तेषां नामानि — निरीक्षकः स्वर्गीयः संजयपाठकः, निरीक्षकः स्वर्गीयः रमेशकुमारः धुर्वे, सहायकोपनिरीक्षकः स्वर्गीयः रामचरणः गौतमः, सहायकोपनिरीक्षकः स्वर्गीयः महेशकुमारः कोरिः, प्रधान-आरक्षकः स्वर्गीयः सन्तोषः कुशवाहः, प्रधान-आरक्षकः स्वर्गीयः प्रिन्सगर्गः, प्रधान-आरक्षकः स्वर्गीयः अभिषेकः शिण्डे, प्रधान-आरक्षकः स्वर्गीयः गोविन्दः पटेलः, आरक्षकः स्वर्गीयः अनुजः सिंहः, आरक्षकः स्वर्गीयः सुन्दरः सिंहः बघेलः, आरक्षकः स्वर्गीयः अनिलः यादवः इत्येते।

प्रदेशस्य एतेभ्यः ११ वीरगत-आरक्षकेभ्यः अतिरिक्तं देशव्यापकेन वर्षेण १९१ आरक्षककर्मिणः अधिकारिणश्च वीरगताः। तेषामपि श्रद्धाञ्जलिः दीयते। भोपालं प्रति सर्वेषु जनपदेषु अपि आरक्षकस्मृतिशोभायात्रायाः आयोजनं भविष्यति। एतेषां वीरगत-आरक्षकजनानां परिजनाः तत्र सम्मानिताः भविष्यन्ति।---

हिन्दुस्थान समाचार / अंशु गुप्ता