Enter your Email Address to subscribe to our newsletters
पश्चिममेदिनीपुरम्, 21 अक्टूबरमासह् (हि.स.)
पर्यावरण-संरक्षण-जागरूकता-संदेशं प्रसारितुम् उद्दिश्य सायकिल-यात्रायाम् निर्गतः अमृतः किस्कु २४,००० किलोमीटर दूरीपूर्णं यात्रा सफलतया सम्पन्नं कृत्वा स्वगृहं प्रत्यागतः। अस्य यात्रा द्वौ वर्षे एक मासे नवदिने च अभवत्। एतेषु दिनेषु तेन देशस्य २८ राज्यं च ५ केन्द्र-शासितप्रदेशानां च भ्रमणं कृतम्।
अमृतः अस्य यात्रायाः आरम्भं पर्यावरणस्य प्रति जनेषु जागरूकता जन्मयितुं कृतवान्। मार्गे तेन विविधप्रकारस्य प्राकृतिकं भूगोलिकं च क्लेशम् अनुभवितम्, किन्तु तस्य उत्साहः संकल्पश्च अडिगम् अभवत्। मङ्गलवासरे प्रभाते सः अन्ते किशियाड़ी-खण्डे स्थितं स्वगृहं प्रत्यागतः, यत्र परिवारजनैः स्थानिकजनैश्च तस्य सोत्साहेन स्वागतं कृतम्। यात्रायाः समये अमृतः अनेकैः जनैः समागत्य पर्यावरण-संरक्षण-संदेशं दत्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता