मध्यप्रदेशे गोवर्धनपूजायाः राज्यस्तरीयः कार्यक्रमः अद्य भोपालस्य रविन्द्रभवने आयोजितः भवति
- मुख्यमंत्री डॉ. यादवेन “प्रत्येकगृहे, प्रत्येकगौशालायाम्, प्रत्येकग्रामे च गोवर्धनपूजां कर्तव्यम्” इति आह्वानं कृतम्। भोपालम्, 21 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरे अद्य मङ्गलवासरे रवीन्द्रभवने गोवर्धनपूजायाः राज्यस्तरीयः कार्य
सीएम मोहन यादव (फाइल फोटो)


- मुख्यमंत्री डॉ. यादवेन “प्रत्येकगृहे, प्रत्येकगौशालायाम्, प्रत्येकग्रामे च गोवर्धनपूजां कर्तव्यम्” इति आह्वानं कृतम्।

भोपालम्, 21 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरे अद्य मङ्गलवासरे रवीन्द्रभवने गोवर्धनपूजायाः राज्यस्तरीयः कार्यक्रमः आयोजितः अस्ति। अस्य कार्यक्रमस्य शुभारम्भं मुख्यमंत्री डॉ. मोहन यादवः करिष्यति। मुख्यमंत्रीना “प्रत्येकं गृहे, प्रत्येकगौशालायां, प्रत्येकग्रामे च गोवर्धनपूजां कर्तव्यम्” इति आह्वानं कृतम्।

मुख्यमंत्री डॉ. यादवेन उक्तं यत् प्रदेशस्य सांस्कृतिक-धार्मिक-सामाजिकविरासतस्य संरक्षणार्थं सर्वेषु प्रमुखेषु सार्वजनिकस्थलेषु, गोशालासु च, गोवर्धनपूजायाः आयोजनं उल्लासपूर्वकं कर्तव्यम्, यतः एतेन गोमातुः तथा प्रकृतेः प्रति सम्मानः समर्पणं च व्यक्तं भवति।

मुख्यमंत्रीना एव उक्तं यत् प्रदेशस्य प्रत्येकविकासखण्डे वृन्दावनग्रामः स्थाप्यते। दुग्धोत्पादकानां कृते आधुनिकदुग्धसंवर्धनकेन्द्रस्थापनाय “डॉ. भीमराव अम्बेडकर कामधेनुयोजना” अन्तर्गतं द्विचत्वारिंशल्लक्षरूप्यकपर्यन्तं ऋणं प्रदास्यते।

जनसम्पर्काधिकारी के. के. जोशीना सूचितं यत् राज्यस्तरीयेऽस्मिन् कार्यक्रमे उत्कृष्टदुग्धोद्यमिनां सम्मानः भविष्यति, आङ्गनवाडीकेन्द्रेषु पंचगव्यउत्पदानां वितरणं, अन्नकूटः, पशुपालन-कृषि-सहकारिताविभागानां योजनाः, दुग्धोत्पाद-जैविकवस्तूनां च प्रदर्शनी अपि आयोजिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता