Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 22 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमामहोदयः केन्द्रीयगृहमन्त्रिणं श्रीमदामितशाहमहोदयम् प्रति जन्मदिनस्य अवसरि हृदयपूर्वकं शुभाशंसाः समर्पितवान्। तेन तस्य नेतृत्वं, दृष्टिः, संगठनकौशलं च प्रशंसितम्।
मुख्यमन्त्रिणा सामाजिकमाध्यमे लिखितम्—
“मम मार्गदर्शकः प्रेरणास्रोतश्च, येन सर्वासु परिस्थितिषु अग्रे गन्तुं मार्गः दर्शितः, तस्मै आदरणीयाय अमितशाहमहाभागाय जन्मदिनस्य हार्दिकाः शुभकामनाः।”
तेनोक्तम्— “अमितशाहस्य सूक्ष्मदृष्टिः, संगठनदक्षता च तं भारतस्य अग्रगण्यनेतृपदे प्रतिष्ठितवन्ति।”
मुख्यमन्त्रिणा पुनरपि उक्तम्— “अस्माकं असमप्रदेशस्य सर्वासु विशेषस्थितिषु तस्य मार्गदर्शनं, सहयोगः, समयोचितप्रवृत्तयः च सदैव अस्मान् शक्त्या पूरितवन्तः।
अन्ते मुख्यमन्त्रिणा लिखितम्— “अस्य तस्य जीवनस्य विशेषदिने अहं मातृकामाख्यादेवीं श्रीमन्तशंकरदेवं च प्रार्थये, यत् तौ तम् सदैव स्वस्थं रक्षेताम्, मातृभारत्याः सेवायै च ऊर्जा प्रदद्यात्।”
हिन्दुस्थान समाचार