Enter your Email Address to subscribe to our newsletters
रायपुरम् 22 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे स्वगृहग्रामात् बगिया इत्यस्मात् रायपुरनगरं प्रति आगमिष्यति। सः राजभवने आयोजिते दीपावलिमिलनसमारोहे सहभागी भविष्यति।
नियतकार्यक्रमानुसारं मुख्यमन्त्री मध्यान्हे द्वादशवादने (१२:०० बजे) स्वनिवासस्थानात् बगिया इत्यस्मात् प्रयाणं करिष्यति। ततः द्वादशवादनपञ्चमिनिटे (१२:०५ बजे) बगिया हेलिपैडतः कनसाबेल नगरं प्रति गच्छति।
अनन्तरं मध्याह्ने एकवादनपञ्चदशमिनिटे (१:१५ बजे) रायपुरे स्थिते पुलिसग्राउण्ड्-हेलिपैडे आगमिष्यति। सायं षट्वादनपञ्चविंशतिमिनिटे (६:२५ बजे) मुख्यमन्त्री स्वनिवासस्थानात् राजभवनं प्रति प्रस्थानं करिष्यति, यत्र आयोजिते दीपावलिमिलनसमारोहे सः सहभागी भविष्यति।
---------------
हिन्दुस्थान समाचार