जशपुरम् - मुख्यमंत्री विष्णुदेवसायः स्वपरिवारसमेतं गोवर्धनपूजनं कृतवान्
जशपुरम्/रायपुरम्, 22 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा विष्णुदेवसायेन अद्य बुधवासरे मुख्यमन्त्रिकैम्पकार्यालये बगियायां (जशपुरे) स्वपरिवारसमेतं गोवर्धनपूजनं कृतम्, यस्मिन् सः प्रदेशस्य सुखसमृद्धेः, शान्तेः, सौख्यस्य च प्रार्थनां कृतवान्। अस्मिन्
मुख्यमंत्री विष्णु देव साय बगिया जशपुर में सपरिवार गोवर्धन पूजा करते


जशपुरम्/रायपुरम्, 22 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा विष्णुदेवसायेन अद्य बुधवासरे मुख्यमन्त्रिकैम्पकार्यालये बगियायां (जशपुरे) स्वपरिवारसमेतं गोवर्धनपूजनं कृतम्, यस्मिन् सः प्रदेशस्य सुखसमृद्धेः, शान्तेः, सौख्यस्य च प्रार्थनां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्रिणः माता जसमनीदेवीसाय, धर्मपत्नी कौशल्यासाय तथा परिवारस्य अन्यसदस्याः उपस्थिताः आसन्।

मुख्यमन्त्री साय उक्तवान् यत् गोवर्धनपूजा भगवतः श्रीकृष्णस्य तस्य प्रेरणादायिन्याः लीलायाः स्मृतिरूपा अस्ति, यस्मिन् तेन गोकुलवासिनः प्रलयकारीं वर्षां संकटं च मोचयितुं गोवर्धनपर्वतं स्वकनिष्ठाङ्गुल्या धार्य सर्वान् शरणं दत्तवान्। एषः पर्वः अस्मान् शिक्षयति यत् यदा समाजः एकत्रित्वेन, विश्वासेन सहकारेण च कार्यं करोति, तदा कश्चनापि संकटः अजेयः न भवति।

सः उक्तवान् यत् गोवर्धनपूजा केवलं धार्मिकः अनुष्ठानः न, अपितु कृतज्ञतायाः, सह-अस्तित्वस्य, प्रकृतिपूजनस्य च प्रतीकः अस्ति। अस्मिन् दिने गोवंशस्य पूजा क्रियते, या भारतीयसंस्कृतेः आत्मा — गौसंवर्धनं पर्यावरणसंरक्षणं च — सजीवयति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता