भगवान चित्रगुप्तः एवं भ्रातृद्वितीयापूजा 23 अक्टूबर तमे दिनाङ्के
रांची, 22 अक्टूबरमासः (हि.स.)।अस्मिन् २३ अक्टूबर् दिने चित्रगुप्तपूजा (दवात) तथा भाईदूज (गोधन) इत्ययोः पूजनं सम्पन्नं भविष्यति। अस्मिन् दिने भगिन्यः स्वभ्रातृणां अकालमृत्युः नास्तु इति यम-यमी पूजनं कुर्वन्ति, तेषां आयुः, आरोग्यम्, उत्तमस्वास्थ्यं च
फाइल फोटो चित्रगुप्त भगवान की तस्वीर


रांची, 22 अक्टूबरमासः (हि.स.)।अस्मिन् २३ अक्टूबर् दिने चित्रगुप्तपूजा (दवात) तथा भाईदूज (गोधन) इत्ययोः पूजनं सम्पन्नं भविष्यति। अस्मिन् दिने भगिन्यः स्वभ्रातृणां अकालमृत्युः नास्तु इति यम-यमी पूजनं कुर्वन्ति, तेषां आयुः, आरोग्यम्, उत्तमस्वास्थ्यं च कामयन्ति।

अस्मिन् दिने भ्राता भगिन्याः गृहमागत्य तिलकं प्राप्त्वा भोजनं करोति इति विधानम् अस्ति। मान्यता अस्ति यत् भगिन्याः गृहे भोजनं कृत्वा भ्रातृणां आयुः वृद्धिं प्राप्नोति।

चित्रगुप्तपूजा तु मनुष्यानां कर्माणां लेखा-जोखा रक्ष्यमाणाय भगवान् चित्रगुप्ताय समर्पिता अस्ति।

आचार्यः मनोजपाण्डेयः बुधवासरे अवदत् यत् गुरुवासरे कार्तिकशुक्लपक्षे द्वितीयायां भाईदूज सहितं चित्रगुप्तपूजा अपि संपाद्यते। गोधनदिने आयुष्मान् योगः सर्वार्थसिद्धियोगः च शुभसङ्गमेण सञ्जायत। भाईदूज पूजनं सम्पूर्णदिनं भविष्यति।

---------------

हिन्दुस्थान समाचार