राजस्थानम् अधुना अपराधिऽयो वर्तते सर्वतः सुरक्षितं स्थानम् - पूर्व मुख्‍यमंत्री अशोक गहलोत
जयपुरम्, 23 अक्टूबरमासः (हि.स.)।पूर्वमुख्यमन्त्री अशोकगहलोतः राजस्थानराज्ये विधिव्यवस्थायाः अवनतिं निर्दिश्य राज्यसर्वकारं प्रति तीक्ष्णं प्रहारं कृतवान्। गहलोतः सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् वर्तमानराज्यस्थितिं प्रति चिन्तां व्यक्त्वा लिखितवा
पूर्व मुख्यमंत्री अशोक गहलोत


जयपुरम्, 23 अक्टूबरमासः (हि.स.)।पूर्वमुख्यमन्त्री अशोकगहलोतः राजस्थानराज्ये विधिव्यवस्थायाः अवनतिं निर्दिश्य राज्यसर्वकारं प्रति तीक्ष्णं प्रहारं कृतवान्।

गहलोतः सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् वर्तमानराज्यस्थितिं प्रति चिन्तां व्यक्त्वा लिखितवान् — “इदानीं राजस्थानं विधिव्यवस्थावर्जितं जातमिव दृश्यते, अपराधाः निरन्तरं वर्धन्ते। हत्या, लुंठनं, बलात्कारः, चौर्यं च — सर्वे प्रकाराः अपराधाः अभिवृद्धिं गच्छन्ति।”

पूर्वमुख्यमन्त्रिणा उक्तं — “दीपावलिपर्वकालः स एव भवति यदा पुलिसद्वारा विधिव्यवस्था पूर्णतया सजगं, सुदृढं च क्रियते, सुरक्षा व्यवस्थाः अपि दृढतया स्थाप्यन्ते। तथापि उत्सवानां मध्ये जैसलमेरनगरे द्विहत्याकाण्डः, बीकानेरे महिला-न्यायाधीशायाः प्रति लूटः, जोधपुरस्य बिलाड़ा-प्रदेशे च दलितबालिकायाः सह दुष्कर्मं जातम्।”

तेन आरोपितं यत् “राजस्थानं इदानीं अपराधिनां कृते सर्वाधिकं सुरक्षितस्थानं जातम्; तेषां कस्यापि भयः नास्ति। दीपावलिपर्वणि एतादृशाः घटनाः राजस्थानप्रदेशे सम्भवन्ति इति श्रुत्वा लज्जया शिरो नमति।”

---------------

हिन्दुस्थान समाचार