Enter your Email Address to subscribe to our newsletters
भोपालम्, 23 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे “लाडलीभगिनीयोजना” हितग्राहिनः अद्य गुरुवासरे भ्रातृद्वितीयायाः अवसरस्य सन्दर्भे ३१८ कोटिः रूप्यकाणां विशेष-उपहारं प्राप्स्यन्ति। राज्यसर्वकारः इमां राशिं पर्वणः उपहाररूपेण तासां वित्ताधिकोषे प्रत्यक्षं प्रेषयिष्यते। मुख्यमन्त्री डॉ॰ मोहनयादवेन प्रदेशस्य १.२७ करोड “लाडलीभगिन्याः” एषा राशि एकस्मिन् क्लिकेन हस्तान्तरीकृतं करिष्यते। अस्मिन् अवसरे मुख्यमंत्रीनिवासे विशेषः कार्यक्रमः आयोज्यते। कार्यक्रमे लाडलीभगिन्यः पुष्पवर्षया स्वागतं कृत्य भविष्यन्ति। कार्यक्रमे प्रदेशस्य महिला एवं बालविकासमंत्री निर्मलाभूरिया, पिछडाजाति एवं अल्पसंख्याककल्याणराज्यमंत्री (स्वतंत्रप्रभार) कृष्णागौर, तथा विधायक एवं भाजपा प्रदेशाध्यक्ष हेमंतखण्डेलवालः अपि उपस्थिताः भविष्यन्ति।
मुख्यमन्त्री डॉ॰ यादवेन भ्रातृद्वितीया अवसरस्य सन्दर्भे मुख्यमंत्रीनिवासे आयोज्यमाने कार्यक्रमे लाडलीभगिन्याः कृते सन्देशः अपि प्रकाशितः। ते अवदन्— “भ्रातृद्वितीया-पर्वः भारतीयसंस्कृतेः प्रेम-स्नेह-दायित्त्वप्रतीकः अस्ति। एषः केवलम् उत्सवः न, अपि तु सम्बन्धस्य उत्सवः अस्ति, यत्र भ्राता स्वभगिन्याः सुख-दुःख-सुरक्षा-सम्मानस्य वचनं निभायति। भगिन्याः हासः एव समाजस्य समृद्धेः आधारः अस्ति, प्रत्येकभ्रातुः कर्तव्यं यत् सः स्वाचरणेन कर्मणा एषां भावनां दृढं करोति।”
ते अपि अवदन्— “भगवान् श्रीकृष्णः सुभद्रायाः सम्बन्धः भ्रातृभगिन्योर्युग्मस्य प्रेमसंरक्षणस्य सुन्दरतमः उदाहरणः अस्ति। यथा श्रीकृष्णेन सर्वसंध्यायां भगिन्याः सुरक्षा-सम्मानस्य ध्यानं कृतम्, तथा एव अस्य शासनस्य लाडलीभगिन्यः सुख-सुरक्षा-आत्मनिर्भरता सहायकत्वं सन्ति। एषः सम्बन्धः स्मरयति यत् भ्रातुः स्नेहः केवलं वचननिष्पादनं न, कर्मणा निभायिता दायित्त्वम् अपि अस्ति। अस्माकं शासनं एतादृश्येण सांस्कृतिकपरम्परां पालनं कृत्वा अग्रे गच्छति। भगिन्याः हर्षः, सुरक्षा, आत्मविश्वास च सर्वोपरि भवन्ति।”
शासनस्यान्तर्गते संवेदनाशीलता, पर्वेषु आत्मियत्वम्— मुख्यमन्त्री डॉ॰ यादवेन एषा परम्परा निर्मिता यत् प्रदेशस्य प्रत्येकं पर्वः जनजीवने नूतनम् उमङ्गं आशां च आनयेत्। दीपावली, रक्षाबंधन, गोवर्धनपूजा, भ्रातृद्वितीया च इत्येते पर्वः शासनस्य मानवीयरूपस्य प्रतीकम् अभवन्। डॉ॰ यादवेन उक्तम्— “प्रदेशस्य लाडलीभगिन्यः केवलं योजनाफलाभिन्यः न, अपि तु परिवारस्य समाजस्य च आत्मा सन्ति। लाडलीभगिनीयोजनया भगिन्यः आत्मनिर्भर-जागरूक-सामाजिकरूपेण सशक्ताः अभवन्। अद्यतनपर्यन्तं अस्याः योजनायाः अन्तर्गतं ४४,९१७.९२ कोटिः रूप्यकाणि प्रत्यक्षं भगिन्याः अधिकोषे प्रेषिता, या प्रदेशस्य १.२७ कोट्यः लाडलीभगिन्यः प्रति स्नेह-सम्मानस्य जीवंतदृष्टान्तः अस्ति। भ्रातृद्वितीयायाः अवसरस्य सन्दर्भे लाडलीभगिनीयोजनायां प्रत्येकं भगिन्यै २५० रूप्यकाणां वितरणस्य प्रतिज्ञा पूर्णा कृतः। अधुना योजनायाः अन्तर्गतं प्रत्येकभगिन्यै १५०० रूप्यकाणि प्राप्स्यन्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता