Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 23 अक्टूबरमासः (हि.स.)।उत्तरो हरिद्वारप्रदेशे भूपतवालायां स्थिते स्वामिनारायणमन्दिरे गुजरातिनववर्षोत्सवः महता उत्साहेन, भक्तिभावेन च आचरितः। अस्मिन् अवसरे भगवतः नारायणस्य प्रति षट्पञ्चाशद्भोगान् श्रद्धया अर्पितवन्तः।
समागतेषु सहस्रशः श्रद्धालुषु भक्तेषु स्वामिनारायणाश्रमस्य संस्थापकः परमाध्यक्षः स्वामी हरिबल्लभदासशास्त्री नाम महात्मा भाषमाणः अवदत् —
“धर्मार्थं यः धनस्य उपयोगः स एव तस्य सद्गतिः। यत् धनं संतसेवायां मानवसेवायां च व्यय्यते, तत् एव मोक्षमार्गस्य द्वारं उद्घाटयति।”
स्वामी आनंदस्वरूपदासः अपि उक्तवान् — “गुजरातः भक्तेः भूमिर्भवति, हरिद्वारं तु मोक्षस्य धामम्। हरिद्वारे गङ्गातटे सन्तजनानां सान्निध्ये यः धार्मिकअनुष्ठानः क्रियते, तस्मात् अक्षयपुण्यं लभ्यते।”
भारतमातामन्दिरस्य महन्तः महामण्डलेश्वरः स्वामी ललितानन्दगिरीमहाराजः गुजरातीसमाजं प्रति नववर्षशुभकामनाः दत्वा, आश्रमस्य संचालकं स्वामी आनंदस्वरूपदासं, संस्थायाश्च सहयोगिनः प्रति मंगलाशंसनानि अकार्षीत्।
गरीबदासीसंप्रदायाचार्यः स्वामी रविदेवशास्त्री अवदत् —
“स्वामी हरिबल्लभदासशास्त्रीमहाराजेन यः सेवाभक्त्योः अंकुरः कदाचित् रोपितः, सः अधुना वटवृक्षरूपेण सनातनधर्मस्य तथा गुजरातसंस्कृतेः शोभां वर्धयति।”
अस्मिन् पवित्रे उत्सवे स्वामी निर्मलदासः, स्वामी दिनेशदासः, स्वामी सुतीक्ष्णमुनिः, स्वामी शिवमहन्तः, स्वामी चन्द्रप्रकाशदासः, स्वामी केशवप्रियः, कोठारीस्वामी जयेन्द्रः च, तथा बहुसंख्ये गुजरातीसमाजस्य जनाः सन्निहिताः आसन्।
हिन्दुस्थान समाचार