Enter your Email Address to subscribe to our newsletters
भाेपालम्, 23 अक्टूबरमासः (हि.स.)। अद्य गुरुवासरे भ्रातृद्वितीया-पर्वणः उत्सवः आचर्यते। प्रति वर्षं कार्तिकशुक्लद्वितीयातिथौ एव एषः पर्वः उत्सवपूर्वकं मन्यते। मुख्यमंत्री डॉ॰ मोहनयादवेन भ्राता-भगिन्योः मधुरसम्बन्धान् प्रगाढयन्तं पावनं पर्व “भ्रातृद्वितीया” इत्यस्य सर्वेषां प्रदेशवासिनां प्रति हार्दिकाः शुभाशंसाः दत्ताः।
मुख्यमन्त्रिणा डॉ॰ यादवेन सामाजिकसञ्जालमञ्चे ‘एक्स्’ इत्यस्मिन् स्वसन्देशे लिखितम्— “पावनस्य पर्वणः भ्रातृद्वितीयायाः आप सर्वेभ्यः हार्दिकाः शुभाशंसाः । भ्रातुः प्रगतेः दीर्घायुषश्च कृते भगिनीनां कामना अमृतसमाना अस्ति। प्रेमसमर्पणयोः एषः पवित्रः उत्सवः भ्राता-भगिन्योः मधुरसम्बन्धान् अधिकं प्रगाढं करोति। भवतां सर्वेषां जीवनानि यावत् मधुरतया अक्षुण्णानि स्युः, एषा एव मम मंगलकामना।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता