Enter your Email Address to subscribe to our newsletters
रायपुरम्, 23 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायमहोदयः अद्य गुरुवासरे गौरेला–पेण्ड्रा–मरवाहीजनपदस्य भ्रमणयात्रायां भविष्यन्ति। नियोजितकार्यक्रमानुसारं ते अद्य मध्याह्ने एकवादने रायपुरनगरात् प्रस्थित्य गौरेला–पेण्ड्रा–मरवाहीजिलस्य ऐंठी ग्रामं गमिष्यन्ति। तत्र विधायकः प्रणवकुमारमरपच्ची इत्यस्य मातुः त्रयोदश–समारोहे सहभागी भविष्यन्ति। कार्यक्रमसमापनानन्तरं मुख्यमंत्री रायपुरं प्रत्यागमिष्यन्ति॥
---------------
हिन्दुस्थान समाचार