बिहार विधानसभानिर्वाचनम् : महागठबंधनस्य सहकारिण्याः पत्रकार वार्तायाः पूर्वं तेजस्विनो नेतृत्वं कांग्रेसपक्षोऽगृह्णात्
पटना, 23 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनं प्रति महागठबन्धनस्य अद्य, गुरुवासरे, महत्त्वपूर्णा पत्रकारवार्ता आयोजनायोज्यते। अस्य सम्बन्धे एकः पोष्टरः अपि निर्गतः अस्ति, यस्मिन् केवलं तेजस्वीयादवस्य एव चित्रं दृश्यते। एवं स्पष्टरूपेण निश्चीत
महागठबंधन की साझा पत्रकार वार्ता से पहले के पोस्टर में केवल तेजस्वी यादव की फोटो


पटना, 23 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनं प्रति महागठबन्धनस्य अद्य, गुरुवासरे, महत्त्वपूर्णा पत्रकारवार्ता आयोजनायोज्यते। अस्य सम्बन्धे एकः पोष्टरः अपि निर्गतः अस्ति, यस्मिन् केवलं तेजस्वीयादवस्य एव चित्रं दृश्यते। एवं स्पष्टरूपेण निश्चीतं जातं यत् महागठबन्धनस्य नेता तेजस्वीयादव एव सन्ति।

बिहारे सत्तारूढ–राष्ट्रिय–जनतान्त्रिक–गठबन्धने (राजग) पूर्वमेव नेतृत्वसंकटस्य कोऽपि प्रश्नः नासीत्। आसनविभाजनस्य विषयः अपि समये एव समाधानं प्राप्तवान्। अपरस्मिन् पक्षे विपक्षीय–महागठबन्धने नेतृत्वात् आरभ्य आसनविभाजनपर्यन्तं या खींचतान् (मतभेदः) आसीत्, तस्याम् इदानीं विरामः दृश्यते। महागठबन्धनस्य सर्वाणि कार्याणि अपि इदानीं सम्यग् मार्गे स्थाप्यन्ते इति प्रतीतिः।

एतेषां मध्ये एतदपि स्पष्टं जातम् यत् महागठबन्धनस्य मुख्यमन्त्रिपदस्य मुखचिह्नरूपेण को भविष्यति इति विषये अपि संशयः प्रायः समाप्तः। तेजस्वीयादवः उद्घोषितरूपेण महागठबन्धनस्य मुख्यमन्त्रिपदस्य प्रत्याशीस्वरूपेण स्वीक्रिताः।

राष्ट्रीयजनतादलस्य (राजद) नेता तेजस्वीयादवः बुधवासरे महागठबन्धने कस्यापि विवादस्य अभावं निर्दिश्य उक्तवन्तः — “त्रयोविंशतितमे अक्टोबरदिने सर्वं स्पष्टं भविष्यति।” पटने राजद–कांग्रेसयोः मध्ये यः मतभेदः प्रवृत्तः आसीत्, तत्रापि तेजस्वीयादवेन उक्तं यत् “कोऽपि विवादः नास्ति।”

२२ अक्टोबरदिने अशोक–गहलोत् नामकः नेता तेजस्वीयादवगृहं गत्वा तेन सह संवादं कृतवान्। प्रायेण एकघण्टायाः चर्चानन्तरं गहलोतः निर्गत्य केवलं उक्तवान् — “सर्वं शुभं भविष्यति।”

राजद–कांग्रेसद्वयातिरिक्तं भारत–गठबन्धनस्य अन्ये घटकदलात् यथा वामदलाः, वी.आई.पी. इत्यादयः अपि परस्परम् उपवेशनं कर्तुं सम्भाव्यन्ते। महागठबन्धनस्य सर्वे घटकदलाḥ अद्य एकतां प्रदर्शयन्तः संयुक्तरूपेण प्रचार–अभियानस्य आरम्भं करिष्यन्ति॥

---------------

हिन्दुस्थान समाचार