दीपावलिस्नेहमिलनम् - भाजपा–पदाधिकारिणः परस्परं मिष्टान्नं भोजयित्वा शुभकामनां दत्तवन्तः
वाराणसी, 23 अक्तुबरमासः (हि.स.)। वाराणस्यां सिग्राप्रदेशे स्थिते भारतीयजनतापक्षस्य महानगरकार्यालये महानगराध्यक्षस्य प्रदीपस्य अग्रहरिणः अध्यक्षतायां दीपावलिस्नेहमिलनसमारोह: आयोजितः। समारोहे कार्यकर्तारः पदाधिकारिणश्च परस्परं दीपावल्याः शुभकामनां द
दीपावली मिलन समारोह में जुटे भाजपा पदाधिकारी


वाराणसी, 23 अक्तुबरमासः (हि.स.)।

वाराणस्यां सिग्राप्रदेशे स्थिते भारतीयजनतापक्षस्य महानगरकार्यालये महानगराध्यक्षस्य प्रदीपस्य अग्रहरिणः अध्यक्षतायां दीपावलिस्नेहमिलनसमारोह: आयोजितः। समारोहे कार्यकर्तारः पदाधिकारिणश्च परस्परं दीपावल्याः शुभकामनां दत्वा परस्परं मुखं मिष्टैः प्राश्य आनन्दं प्रकटितवन्तः।

दीपावलिस्नेहमिलनसमारोहं प्राप्तः राज्यमन्त्री (स्वतन्त्रप्रभार) रविन्द्रः जायसवालः महाकवेः निराल इत्यस्य ‘रामकीशक्तिपूजा’ इत्यस्य प्रेरकं संदर्भं प्रस्तुतवान्। तथा विधानपरिषद्सदस्यः धर्मेन्द्रः सिंहः रामायणतुलसीमानसयोः उदाहरणानि निर्दिश्य उक्तवान्— “दीपावली केवलं उत्सवः नास्ति, अपि तु धर्मन्यायमर्यादानां विजयस्य च सांस्कृतिकसन्देशः अपि अस्ति।”

अस्मिन् अवसरे कान्टविधानसभासदस्यः सौरभः श्रीवास्तवः, जनपदाध्यक्षः हंसराजः विश्वकर्मा, महापौरः अशोकः तिवारी च दीपावलिं सकारात्मकतायाः, सद्भावस्य, सेवा–भावनायाश्च पर्वमिति वर्णयन्तः, संगठनस्य सक्रियताम् ऐक्यं च प्रमुखत्वेन प्रतिपादितवन्तः।

अध्यक्षः प्रदीपः अग्रहरिः सर्वेषां कार्यकर्तॄणां अतिथीनां च प्रति कृतज्ञतां प्रकट्य, आगामिनः कार्यक्रमाणां विषये सूचनां दत्वा अधिकं सहभागित्वं कर्तुम् आह्वानं कृतवान्।

समारोहे विवेकः पाण्डेयः, राजीवः सिंहः, अरुणः सिंहः, मधुपः सिंहः, कुँवरकान्तः, अवधेशः रायः, रचना अग्रवालः, साधनावेदान्ती, चन्द्रशेखरः उपाध्यायः, नवीनः कपूरः, अशोकः पटेलः, राहुलः सिंहः, जगदीशः त्रिपाठी, जे.पी. सिंहः, प्रीति सिंहः, जितेन्द्रः पटेलः, मधुकरः चित्रांशः, अजयः गुप्तः, बबलुः सेठः, बृजेशः चौरसिया, प्रमोदः यादवः (मुन्ना) इत्यादयः अनेकाः कार्यकर्तारः उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार / Dheeraj Maithani