निर्वाचन-आयोगः प्रशिक्षणे अनुपस्थितेभ्यः ६०० तः अधिकबीएलओ-जनेभ्यः अधिसूचनां प्रेषितवान्
कोलकाता, २३ अक्टूबरमासः (हि.स.)। निर्वाचनायोगेन प्रदत्तं कार्यं कर्तुं न स्वीकृत्य प्रशिक्षणकार्यक्रमे भागं न ग्राहयन्ति इति कारणेन राज्यस्य सर्वत्र स्थितेषु षट्शताधिकेषु मतदानस्तरीय-अधिकाऱेषु (बीएलओ) कारणं प्रदातुं सूचनापत्रं प्रेषितम्‌ अस्ति। निर
चुनाव अधिकारी


कोलकाता, २३ अक्टूबरमासः (हि.स.)। निर्वाचनायोगेन प्रदत्तं कार्यं कर्तुं न स्वीकृत्य प्रशिक्षणकार्यक्रमे भागं न ग्राहयन्ति इति कारणेन राज्यस्य सर्वत्र स्थितेषु षट्शताधिकेषु मतदानस्तरीय-अधिकाऱेषु (बीएलओ) कारणं प्रदातुं सूचनापत्रं प्रेषितम्‌ अस्ति। निर्वाचनायोगसंबद्धः कश्चन वरिष्ठः अधिकारी गुरुवासरे एतत्‌ सूचितवान्‌ अस्ति।

तेन उक्तं यत्‌ अस्मिन्नेव वर्षे अप्रैल्‌ मासात्‌ मतदानस्तरीय-अधिकाऱ्यः नियुक्तिप्रक्रिया आरब्धा आसीत्‌, किन्तु सप्तदश अक्टूबरदिनाङ्कपर्यन्तं बहवः अधिकारी स्वकार्यालयेषु न उपस्थिता आसन्‌, अतः निर्वाचनपंजीकरणाधिकारी (ईआरओ) इत्यनेन सूचनापत्राणि प्रेषितानि।

सूत्राणामनुसारम्‌, एतेषां अधिकारिणां प्रति आदेशः दत्तः अस्ति यत्‌ ते निर्वाचनायोगस्य कार्यं कर्तुं किं कारणं न स्वीकुर्वन्ति इति स्पष्टीकर्तुं। विशेषतया ज्ञापनीयं यत्‌ पश्चिमबङ्गराज्ये शीघ्रमेव एसआईआर प्रक्रिया आरभ्यते स्म। तस्याः कृते सर्वाणि उपक्रमाणि प्रवर्तमानानि सन्ति। बीएलओ अधिकारीः एव ते भवन्ति ये मतदारपञ्जीकायाः संशोधनकाले गृहात्‌ गृहं गत्वा समाचाराणि संग्रहयानि। अतः षट्शताधिकबीएलओ इत्येभ्यः सूचनापत्रं प्रेषितं प्रशासनदृष्ट्या अत्यन्तं महत्वपूर्णं पादं (कर्म) मन्यते।

निर्वाचनायोगस्य अधिकारी उक्तवान्‌ यत्‌ यदि एतेषां अधिकारिणां प्रत्युत्तरं सन्तोषजनकं न भविष्यति तर्हि १९५० तमस्य जनप्रतिनिधित्व-अधिनियमस्य अन्तर्गतं विधिसम्मतं कर्म (कानूनीकार्यवाही) करिष्यते।

तृणमूलकाँग्रेस्-पक्षस्य प्रवक्ता कुणाल् घोष् नामकः व्यक्तिः भारतीयजनतापक्षम्‌ आरोप्य उक्तवान्‌ –“ते स्वप्रभावस्य उपयोगं कृत्वा वातावरणं निर्मातुम्‌ इच्छन्ति, किन्तु जनता तस्य प्रत्युत्तरं दास्यति।”

ज्ञेयं यत्‌ अनेके बीएलओ अधिकारीः पूर्वमेव स्वसुरक्षां प्रति चिन्तां व्यक्तवन्तः आसन्‌। ते निर्वाचनायोगं सूचितवन्तः यत्‌ यदि सर्वे शिक्षकाः, येभ्यः बीएलओकार्यं प्रदत्तं अस्ति, तस्मिन्‌ कार्ये नियोज्यन्ते, तर्हि विद्यालयेषु अध्यापनं विघ्नितं भविष्यति। बहुषु विद्यालयेषु केवलः एकः शिक्षकः वा विशेषविषयस्य एकमात्रः अध्यापकः एव एषां मध्ये अस्ति, यस्यै उत्तरदायित्वं दत्ता अस्ति। तेन शिक्षणकार्ये प्रभावः अवश्यं भवति इति। अस्मात्‌ कारणात्‌ अनेकाः शिक्षकाः प्रशिक्षणकार्यक्रमे भागं ग्रहीतुं न अशक्नुवन्‌।

हिन्दुस्थान समाचार / Dheeraj Maithani