केदारनाथधाम्नः कपाटाः शीतकालाय निरुद्धाः
केदारनाथः (उत्तराखंडम्), 23 अक्टूबरमासः (हि. स.)। श्रीकेदारनाथधामस्य कपाटाः अद्य प्रातः अष्टवादनत्रिंशदधिके (8ः30) पूर्णवैदिकमन्त्रौच्चारणेन, पूजा-अर्चनया धार्मिकपरम्पराणां च अनुयायित्वेन शीतकालाय निमित्तं निरुद्धाः। कपाटनिरोधनस्य प्रक्रिया प्रात
बाबा केदारनाथ।


केदारनाथ में मुख्यमंत्री पुष्कर सिंह धामी।


केदारनाथः (उत्तराखंडम्), 23 अक्टूबरमासः (हि. स.)।

श्रीकेदारनाथधामस्य कपाटाः अद्य प्रातः अष्टवादनत्रिंशदधिके (8ः30) पूर्णवैदिकमन्त्रौच्चारणेन, पूजा-अर्चनया धार्मिकपरम्पराणां च अनुयायित्वेन शीतकालाय निमित्तं निरुद्धाः। कपाटनिरोधनस्य प्रक्रिया प्रातः चतुर्वादने विशेषपूजा-अर्चनया सह प्रारब्धा आसीत्।

अस्मिन् अवसरि मुख्यमन्त्रि पुष्करसिंहधामी, रुद्रप्रयागजिलाधिपः प्रतीकजैन, आरक्षकाधीक्षकः अक्षयकोंडे, बीकेटीसी मुख्यकार्यपालकाधिकारी विजयथपलियाल तथा तीर्थपुरोहितगणाः श्रद्धालुगणाश्च उपस्थिताः आसन्।

कपाटनिरोधनानन्तरं बाबाकेदारनाथस्य शिविक ऊखीमठस्थितं ओंकारेश्वरमन्दिरं प्रति प्रस्थितवती। डोल्याः प्रथमं विश्रान्तिस्थानं रामपुरं भविष्यति। श्वः डोली गुप्तकाशिं प्राप्स्यति। पंचविंशतितमे अक्टूबरमासे डोली स्वगद्दिस्थलम् ऊखीमठस्य ओंकारेश्वरमन्दिरं प्राप्स्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता