Enter your Email Address to subscribe to our newsletters

नवदेहली, 23 अक्टूबरमासः (हि.स.)। नागालैंडसर्वकारस्य मन्त्री तेम्जेन इम्ना अलोंग इत्यनेन गुरुवासरे विज्ञानप्रौद्योगिकी-पृथ्वीविज्ञानयोः केंद्रीयराज्यमन्त्री (स्वतन्त्रप्रभार) डॉ. जितेन्द्रसिंहेन सह मेलनम्
कृतवान्। उभाभ्यां राज्यविकाससम्बद्धेषु विषयेषु, विशेषतया विज्ञान-प्रौद्योगिकी-नवोन्मेष-प्रशासकीयसुधारसंबद्धेषु उपक्रमेषु, विस्तृतं विचारविमर्शं कृतवन्तौ।
अस्मिन् अवसरे एव डॉ. जितेन्द्रसिंह महोदयेन उक्तम्—प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रसरकार उत्तरपूर्वप्रदेशस्य तीव्रविकासाय पूर्णतया प्रतिबद्धे स्तः। सः अवदत्— सर्वकारस्य नवोन्मेषाधारितसमाधानानि, युवाकेन्द्रिताः उपक्रमाः, स्टार्टअप-पारिस्थितिकतन्त्रस्य संवर्धनं च माध्यमीकृत्य क्षेत्रस्य समग्रविकासं प्रवर्तयति। उत्तरपूर्वप्रदेशेषु प्रत्येकं राज्यं नूतनपीढ्याः प्रौद्योगिकीभिः डिजिटलसुशासनमॉडल्स् च लभेत्यस्मिन् विशेषः ध्यानं दत्तम्, यतः क्षेत्रीयसमतोलं समावेशीच प्रगतिः सिध्येत्।
तेम्जेन इम्ना अलोंग महोदयेन डॉ. जितेन्द्रसिंहस्य निरन्तरमार्गदर्शनाय तथा नागालैंडराज्ये केन्द्रीयपरियोजनानां सफलक्रियान्वयनाय प्रदत्तसहकाराय आभारः व्यक्तः। सः उक्तवान्—राज्यसर्वकारः विज्ञानप्रौद्योगिकीमन्त्रालयस्य सम्बद्धविभागानां च उपक्रमेषु पूर्णसहकारं दास्यति, येन राज्ये नवोन्मेषः, कौशलविकासः, युवाउद्यमिता च प्रोत्साहं प्राप्स्यन्ति।
---------------
हिन्दुस्थान समाचार / Vibhakar Dixit