मां कालीप्रतिमायाः विसर्जनमाधृत्य निर्गता शोभायात्रा
भागलपुरम्, 23 अक्टूबरमासः (हि.स.)।भागलपुरनगरमध्ये कालीमातुः प्रतिमायाः विसर्जनकार्यक्रमः गुरुवासरे अपि निरन्तरं प्रवृत्तः आसीत्। प्रतिमाविसर्जनं मुसहरीघाटे स्थिते कृत्रिमसरोवरे सम्पन्नं जातम्। कालीमातुः प्रतिमाविसर्जनस्य निमित्तं भव्याः शोभायात्रा
शोभायात्रा में शामिल श्रद्धालु


भागलपुरम्, 23 अक्टूबरमासः (हि.स.)।भागलपुरनगरमध्ये कालीमातुः प्रतिमायाः विसर्जनकार्यक्रमः गुरुवासरे अपि निरन्तरं प्रवृत्तः आसीत्। प्रतिमाविसर्जनं मुसहरीघाटे स्थिते कृत्रिमसरोवरे सम्पन्नं जातम्।

कालीमातुः प्रतिमाविसर्जनस्य निमित्तं भव्याः शोभायात्राः गतरात्रौ महता उत्साहेन निर्याताः। तासु शोभायात्रासु सहस्रशः श्रद्धालवः सम्मिलिताः आसन्। सम्पूर्णमार्गे “जय माँ काली” इत्यस्य घोषाः निनदितवन्तः। यथा प्रति वर्षं तथा अस्मिन् वर्षेऽपि भागलपुरस्य कालीप्रतिमाविसर्जनशोभायात्रा षट्त्रिंशद् घण्टापर्यन्तं प्रवृत्ता भविष्यति, यस्मिन् शतशः मूर्तयः अनुक्रमेण निर्गताः।

शोभायात्राकाले सुरक्षायाः विस्तीर्णव्यवस्थाः कृता आसन्। सदर-अनुमण्डलपदाधिकारी विकासकुमारः, सिटीडीएस्पी अजयचौधरी च निरन्तरं शोभायात्रायाः निरीक्षणं कुर्वन्तौ आस्ताम्। रैपिड् ऐक्शन् फोर्स् तथा बिहारपुलिस् विविधेषु चौराहेषु नियोजिता आसीत्। सुरक्षा-व्यवस्थायाः पर्यवेक्षणार्थं ड्रोनयन्त्रेणापि निगराणी कृता आसीत्।

यदा परवत्टी-मातुः कालीप्रतिमा स्टेशनचौकं प्राप्तवती, तदा केन्द्रीयकालीपूजामहाराणीसमीत्या प्रतिनिधिभिः मातुः आरती क्रियता। अस्मिन् भव्ये विसर्जनशोभायात्रायां गोड्डा-सांसदः निशिकान्तदुबे अपि उपस्थितः आसीत्, सः श्रद्धालुभिः सह मातुः कालीस्य आशीर्वादं प्राप्तवान्।

---------------

हिन्दुस्थान समाचार