Enter your Email Address to subscribe to our newsletters

— प्रातः ८.३० वादने पारम्परिकरीत्या कपाटबन्धनम्।
— मुख्यपुजारिणा स्वयम्भूलिङ्गाय समाधिरूपं दत्तम्।
— मुख्यमन्त्री पुष्करधामी बाबाकेदारस्य दर्शनं कृतवान्।
रुद्रप्रयागम्, 23 अक्टूबरमासः (हि.स.)। भैयादूज इति पावनपर्वणि पौरणिकरीतिनां धार्मिकपरम्पराणां च निर्वहणेन सह प्रातः ८.३० वादने सैन्यब्यान्डस्य भक्तिध्वनिना जयकारैश्च अनुगम्यमानेषु भगवानाशुतोषस्य द्वादशज्योतिर्लिङ्गेषु एकस्मिन् केदारनाथधामे बाबाकेदारस्य चलउत्सवविग्रडोली शीतकालाय स्वस्य शीतकालीनगद्दिस्थलम्— ऊखीमठस्थितं श्री ओंकारेश्वरमन्दिरं प्रति प्रस्थितवती।
अस्मिन् अवसरे दशसहस्रात् अधिकाः शिवभक्ताः स्वस्य आराध्यस्य दर्शनं कृतवन्तः। डोली रात्रौ विश्रामाय प्रथमं चरणं रामपुरं प्राप्स्यति। बाबाकेदारस्य डोली पंचकेदारगद्दिस्थले ओंकारेश्वरमन्दिरे ऊखीमठे २५ अक्तुबरदिनाङ्के शीतकालीनपूजाऽर्चनार्थं विराजमानं भविष्यति। तदनन्तरं षण्मासपर्यन्तं शिवभक्ताः तत्रैव स्व आराध्यस्य पूजाऽर्चनं दर्शनं च कर्तुं शक्नुवन्ति।
गुरुवासरे केदारनाथधामे प्रातः ४ वादनात् शीतकालाय कपाटबन्धनप्रक्रिया आरब्धा आसीत्। मुख्यपुजारी बागेशलिङ्गेन भगवानकेदारनाथस्य समाधिपूजा– अर्चनं कृत्वा सर्वे परम्परापालनं कृतवन्तः। अस्मिन् अवसरे बाबाकेदारस्य स्वयम्भूलिङ्गं पुष्पैः अक्षतैः भस्मना च अलङ्कृत्य समाधिरूपं दत्तम्। तस्मै भोगः अपि अर्पितः। मुख्यपुजारिणा अन्ये परम्पराः अपि निर्वाहिताः।
अस्मिन् अवसरे मुख्यमन्त्री पुष्करसिंहधामी उक्तवान्— “प्रधानमन्त्रिणः मोदीमहाशयस्य दर्शनानुसारं भव्यकेदारपुरीनिर्माणं सम्पन्नं जातम्, चतुर्धामयात्रायां अस्मिन्वर्षे अभूतपूर्वाः पञ्चदशलक्षाः श्रद्धालवः आगतवन्तः। धामकपाटबन्धनानन्तरं शीतकालीनयात्रा अपि प्रोत्साह्यते।”
बीकेटीसी–अध्यक्षः हेमन्तः द्विवेदी उक्तवान्— “केदारनाथधामे कपाटबन्धनपर्यन्तं सप्तदशलक्षषट्सप्तत्युत्तरसप्ततिसह-स्र (१७,६८७९५) तीर्थयात्रिकाः भगवानकेदारनाथस्य दर्शनं कृतवन्तः। शीतकालीनयात्रायाः कृते अपि यात्रिकाः प्रोत्साह्यन्ते, च शीतकाले केदारनाथधामे सुरक्षाव्यवस्था दृढरूपेण भविष्यति।”
बीकेटीसी–माध्यमप्रभारी डॉ. हरीशः गौडः अवदत्— “केदारनाथधामस्य कपाटबन्धनानन्तरं बाबाकेदारस्य पंचमुखीदेवडोली स्वधामात् प्रस्थितवती, रात्रिविश्रामाय प्रथमं चरणं रामपुरं प्राप्तवती च। शुक्रवासरे डोली रामपुरात् विश्वनाथमन्दिरं गुप्तकाशिं प्रति रात्रिविश्रामाय गमिष्यति। शनिवासरे २५ अक्तुबरदिनाङ्के भगवानकेदारनाथस्य पंचमुखीडोली गुप्तकाशितः शीतकालीनगद्दिस्थलम्— श्री ओंकारेश्वरमन्दिरम् ऊखीमठम् प्रति गत्वा षण्मासपर्यन्तं शीतकालीनपूजाऽर्चनाय विराजमानं भविष्यति।”
हिन्दुस्थान समाचार / Dheeraj Maithani