Enter your Email Address to subscribe to our newsletters
समस्तीपुरम्, 23 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः चतुर्विंशतिदिनाङ्के अक्टूबरमासस्य शुक्रवासरे प्रस्तावितः समस्तीपुरदौरोपलक्ष्ये सर्वासु जनपदसीमासु सिद्धता पूर्णा कृता। प्रशासनिकश्रेणीभ्यः आरभ्य राजगसङ्घटनस्य कार्यकर्तारः अपि प्रधानमन्त्रिणः निर्वाचनसभाम् ऐतिहासिकां कर्तुं प्रवृत्ताः सन्ति। नगरस्य समीपे दुधपुरा विमानस्थलप्राङ्गणे भविता एषा जनसभा, या बिहारविधानसभानिर्वाचन–२०२५ इत्यस्य राजगगुटिकायाः प्रमुखः राजनीतिकः कार्यक्रमः मन्यते। प्रधानमन्त्रिणः सुरक्षा–व्यवस्थां प्रति विशेषसुरक्षादलम् (एस.पी.जी.) जनपदस्य वरिष्ठआरक्षक–प्रशासनिकाधिकारिभिः सह मिलित्वा सभास्थलस्य विस्तीर्णं निरीक्षणं कृतवन्तः। प्राङ्गणस्य च तद्विशेषपरिसरस्य च आवरणबन्धनं कृत्वा सुरक्षा–व्यवस्था बहुषु स्तरेषु विभक्ताऽस्ति।
समस्तीपुरे प्रायः चत्वारिंशदधिकाः वरिष्ठाधिकारीणः, यस्मिन् मध्ये भारतीयप्रशासनिकसेवा (आई.ए.एस्) तथा भारतीयपुलिससेवा (आई.पी.एस्) अधिकारी अपि अन्तर्भवन्ति, विशेषतया नियुक्ताः सन्ति। सहस्रशः सैनिकाः च केन्द्रीय–अर्धसैनिकबलानि च सुरक्षा–कर्तव्येषु तत्र तिष्ठन्ति। प्रधानमन्त्रिणः सभार्थं दुधपुरप्राङ्गणस्य समीपे तथा जी.के.पी.डी. महाविद्यालयपरिसरे अस्थायिनि त्रयः हेलिपैड् निर्मिताः सन्ति। तेषु एकस्मिन् हेलिपैडे प्रधानमन्त्रिणः हेलिकॉप्टरम् अवतरेत्, अन्यौ द्वौ हेलिपैडौ एस.पी.जी. तथा अन्येषां सुरक्षा–बलानां विमानानां कृते आरक्षितौ भविष्यतः।
प्रधानमन्त्री नरेन्द्रमोदिनः प्रथमतः कर्पूरीग्रामम् आगमिष्यति। तत्र ते जननायककर्पूरीठाकुरस्य झोपड्याः अवलोकनं कृत्वा स्मृतिभवने तस्य प्रतिमायाः उपरि माल्यार्पणं कृत्वा श्रद्धाञ्जलिं दास्यन्ति। ततः प्रधानमन्त्री मार्गेण वा हेलिकॉप्टरयानेन वा दुधपुरसभास्थलं गत्वा विशालां जनसभां संबोधयिष्यन्ति। कार्यक्रमस्य समापनानन्तरं ते बेगूसरायं प्रति प्रयास्यन्ति। प्रधानमन्त्रिणः आगमनदृष्ट्या समस्तीपुरसहितं दरभङ्गा–मुजफ्फरपुर–बेगूसराय–खगडियाजिलातः अपि अतिरिक्तरूपेण आरक्षकबलं आमन्त्रितम्। केन्द्रीयसुरक्षासंस्थानानां विशेषएककानि अपि निग्रहे सन्नद्धानि सन्ति, येन कश्चन अप्रियः प्रसङ्गः पूर्णतया निवर्त्येत। प्रधानमन्त्रिणः सभां प्रति भाजपा–जदयू–राजगगुटिकायाः सहयोगिदलेषु प्रबलः उत्साहः दृश्यते। कार्यकर्तारः दुधपुरप्राङ्गणं अलङ्कर्तुं, शोभायितुं, अधिकाधिकं जनसमूहम् आकर्षयितुं च तत्पराः सन्ति। प्रशासनिकाधिकारी सुरक्षा–यातायात–सम्मर्दनियन्त्रणमञ्चव्यवस्था–इत्यादीनाम् अन्तिमसमीक्षायां व्यस्ताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता