Enter your Email Address to subscribe to our newsletters

वाराणसी, 23 अक्टूबरमासः (हि. स.)।काशीपुर्यां गोवर्धनपूजायां सहभागीभूत्वा समाजवादीपक्षस्य राष्ट्रीयमहासचिवः शिवपालसिंहयादवः भारतीयजनतापक्षं तथा मुख्यमन्त्रिणं योगीआदित्यनाथं प्रति कटाक्षान् अकरोत्।
तेन नामोल्लेखं विना उक्तं — “उत्तरप्रदेशस्य एकः सन्तः अस्ति, यस्य स्वभावः सन्तस्वभावः नास्ति। सन्तः हि स्वभावतः शान्तः भवति, किन्तु स तु दिवसम् अखिलं जनान् प्रति विपरीतं भाषते, आत्मनः स्तुतिं च करोति। यदि मर्यादापुरुषोत्तमं श्रीरामं मानयन्ति, तर्हि तस्मात् किञ्चित् अधीयेरन् इति।”
समाजवादीपक्षनेता अद्यात्र पत्रकारैः सह संवादं कुर्वन् आसीत्। समाजवादीपक्षाध्यक्षस्य अखिलेश्यादवस्य वचने विषये प्राप्ते प्रश्न उत्तरे सः अवदत् — “अयोध्यायाः घाटः कस्य शासनकाले निर्मितः इति ज्ञातव्यं। प्रथमवारं घाटे दीपः कस्य शासनकाले प्रज्वलितः इति अपि पत्रकारैः ज्ञातव्यं। वाराणस्यां विस्तीर्णमार्गाः, गोवर्धनपूजास्थलानि च समाजवादीपक्षस्य शासनकाले एव निर्मितानि।”
शिवपालसिंहयादवः उक्तवान् — “एते जनाः धर्मस्य च भगवान् श्रीरामस्य च नाम्ना मतान् इच्छन्ति। किन्तु जनाः इदानीं सर्वं जानन्ति। अस्य समयस्य निर्वाचनं यथा भविष्यति, तत् सर्वे द्रक्ष्यन्ति। धर्मनाम्ना एव यदि ते निर्वाचनं लढन्ति, तर्हि उत्तरप्रदेशे विद्यमानं असत्यं, बेरोजगारी च—तत् को नियंत्रयिष्यति? अद्यतन अयोध्यायां दीपोत्सवकार्यक्रमे यत् जातं, तत्र मुख्यमन्त्रिणः सहयोगिनः कुत्र आसन् इति अपि विचारणीयम्।”
---------------
हिन्दुस्थान समाचार