Enter your Email Address to subscribe to our newsletters

नवदेहली, 23 अक्टूबरमासः (हि.स.)।केंद्रीयकृषिऔरकिसानकल्याणग्रामीणविकासमन्त्री शिवराजसिंहचौहानः चतुर्विंशतितमे अक्टोबरमासदिनाङ्के बिहारप्रदेशयात्रायां भविष्यति। सः शुक्रवारदिने बिहारप्रदेशस्य द्वयोः विधानसभाक्षेत्रयोः भारतीयजनतापक्षस्य प्रत्याशिनां समर्थनार्थं जनसभां करिष्यति।
शिवराजसिंहः प्रातः एकादशवादने पञ्चदशमिनिटे गोपालगञ्जजिलस्य वैकुण्ठपुरक्षेत्रे, अपराह्णे विंशत्यधिकएकवादने व दरभङ्गाजनपदस्य गौराबौरामविधानसभाक्षेत्रे जनसभां संबोधितुम् आगमिष्यति। वैकुण्ठपुरक्षेत्रात् मिथिलेशतिवारी, गौराबौरामक्षेत्रात् सुजीतकुमारसिंह इति पक्षस्य प्रत्याशी स्तः।
---------------
हिन्दुस्थान समाचार / Vibhakar Dixit