Enter your Email Address to subscribe to our newsletters

जयपुरम्, 23 अक्टूबरमासः (हि.स.)।
मुख्यमंत्री भजनलाल शर्मा गुरुवासरे विद्याधरनगरस्थित स्मृतिस्थले गत्वा भारतस्य पूर्वउपराष्ट्रपति तथा राजस्थानस्य पूर्वमुख्यमन्त्री भैरोंसिंह शेखावतस्य जयन्त्यां पुष्पैः अर्पयित्वा श्रद्धांजलिं प्रदत्तवान्।
शर्ममहोदयः एषु अवसरेषु माध्यमसंवादे उक्तवन्तः – स्वर्गीय शेखावतः राष्ट्रभावनया प्रेरितः भूत्वा राष्ट्रस्य प्रदेशस्य च मजबूतीं जनसेवाया च माध्यमेन दरिद्रस्य उत्थानं कृतवान्। पण्डितदीनदयाल उपाध्यायस्य विचारैः प्रेरितः राजस्थानप्रदेशे “अन्त्योदय योजना” इत्यस्य माध्यमेन अन्तिमं पङ्क्तौ स्थितं व्यक्तिं साहाय्यं प्रदत्त्वा प्रगतिं कर्तुं कार्यम् अकुर्वत्। एवं च महात्मा गान्धी तथा बाबा साहेब डॉ. भीमराव अम्बेडकरस्य विचारान् अपि प्रसरितवान्।
एषु अवसरेषु उपमुख्यमंत्री दीया कुमारी, राजस्थान वित्त आयोगस्य अध्यक्षः डॉ. अरुण चतुर्वेदी, सांसदः मदन राठौड़, मंजू शर्मा, विधायकः गोपाल शर्मा, बालमुकुंदाचार्य, नगर निगम ग्रेटर महापौरः डॉ. सौम्या गुर्जर च विभिन्नाः जनप्रतिनिधयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार