Enter your Email Address to subscribe to our newsletters

- फायर सर्विस विभागे 98 राजपत्रितानां प्रायः 922 अराजपत्रितानां नूतन पदानां सृजनस्यमार्गः स्वच्छः- राज्यस्य फायर सर्विसविभागे आपदा प्रबंधनं, रेस्क्यू अथ आपात सेवाः सम्मेलितुम् अपेक्षा
लखनऊ, 23 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं यत् — प्रदेशे वर्धमाना जनसंख्या, औद्योगिकविस्तारः, नगरीकरणस्य च वेगः दृष्ट्वा अग्निशमनविभागस्य संरचनां अधिकं सशक्तां, आधुनिकां, जनसुरक्षादृष्ट्या च संवेदनशीलां कर्तुं कालस्य अपेक्षा अस्ति। सः अवदत् यत् अग्निशमनसेवां केवलं “अग्निनिवारणकार्ये” एव सीमितां न कृत्वा, आपद्व्यवस्थापनं, रेस्क्यू-ऑपरेशनं, आपत्कालसेवाः च एतेषां समेकितरूपेण विकसितव्या इति।
मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे अत्र एकस्मिन् बैठकायां अग्निशमनविभागस्य समीक्षा अकुरुत। तस्य निर्देशानुसार विभागे राजपत्रितसंवर्गे ९८ नूतनानि पदानि, अराजपत्रितसंवर्गे च प्रायः ९२२ पदानि सृजितानि सन्ति। एतेन जनपदस्तरात् आरभ्य क्षेत्रीयं, मुख्यालयस्तरं च यावत् अग्निशमनसेवायाः कार्यक्षमता, जनसेवाशक्ति च नवमं बलं प्राप्स्यतः।
मुख्यमन्त्रिणा विभागीयकॅडररिव्यू इत्यस्य आवश्यकता प्रकाशिता, च निर्देशाः दत्ताः यत् प्रत्येकस्मिन् क्षेत्रे “विशेषीकृतएकां इकाईं” स्थापयितव्या, या रासायनिक, जैविक, विकिरणजन्यदुर्घटनासु, अत्यूच्चभवनस्थितिषु च सम्यक् प्रतिकारं दातुं समर्था भवेत्। सः अग्निशमनविभागं अत्याधुनिकउपकरणैः प्रशिक्षितजनशक्त्या च सुसज्जितं कर्तुं आदेशं दत्तवान्।
बैठकायां विभागे नूतनपदानां सृजने अपि चर्चा अभवत्। मुख्यमन्त्रिणा उक्तं यत् विभागस्य प्रशासनिकशक्ति वित्तीयपारदर्शिता च वर्धयितुं प्रत्येकजनपदे “अकाउंट-कॅडर” स्थाप्यताम्। राज्य-अग्निशमन-प्रशिक्षण-महाविद्यालये अपि अतिरिक्तपदानि सृज्य प्रशिक्षणस्य अनुसंधानस्य च गुणवत्ता वर्धयितव्या।
मुख्यमन्त्रिणा उक्तं यत् प्रत्येकजिले अग्निशमन-आपत्सेवायाः त्वरितोपलब्धता सुनिश्चितव्या। एक्स्प्रेस-वे इत्यत्र वर्धमानदुर्घटनाः दृष्ट्वा, निर्देशाः दत्ताः यत् प्रत्येकशत-किलोमीटरदूरे “फायर-केंद्रं” स्थापन्या, फायर-टेंडरसहितं, यथा दुर्घटनाकाले “गोल्डन-आवर्” मध्ये एव राहतं, बचावकार्यं च आरभ्येत।
बैठकायां सूचितं यत् नूतनाः ऑपरेशनल-इकाइयः रूपेण कुशीनगर, आजमगढ, श्रावस्ती, कानपुरनगर, अयोध्या, अलीगढ, मुरादाबाद, चित्रकूट, सोनभद्र एयरपोर्टेषु अग्निशमनसेवायाः उपयुक्तजनशक्तिः पूर्वमेव नियुक्ता अस्ति।
मुख्यमन्त्रिणा अधिकारिणः निर्देशिताः यत् अग्निशमनसेवा प्रत्यक्षं जनजीवनसंपत्त्योः रक्षणेन सम्बद्धा अस्ति। अतः तस्याः संरचना तादृशी स्यात् या सर्वासु परिस्थितिषु शीघ्रं, कुशलं, उत्तरदायी च प्रत्युत्तरं दातुं समर्था भवेत्। सः उक्तवान् यत् विभागस्य पुनर्गठनप्रक्रिया समयमर्यादया पूर्णा क्रियताम्, यथा तत्फलं शीघ्रं जनता प्रति प्राप्तुं शक्येत।
हिन्दुस्थान समाचार