Enter your Email Address to subscribe to our newsletters
झाड़ग्रामः, 23 अक्टूबरमासः (हि. स.)। जनपदे बुधवासरे लोकसंस्कृत्या परम्परायाश्च सुगन्धेन पूर्णः ‘बांधनापर्व’ इत्याख्यः उत्सवः महोत्साहेन श्रद्धया च आचीयत। एषः पर्वः भ्रातृद्वितीयायाः पूर्वसन्ध्यायामेव आचीयते, ग्राम्यसमाजस्य विशेषतः जंगलमहलप्रदेशस्य सांस्कृतिकपरिचयस्य एकः प्रमुखः अङ्गः इति मन्यते। बांधनापर्वणः द्वितीये दिने झाड़ग्रामप्रदेशस्य बेलपहाडीग्रामे सहितं सम्पूर्णे जंगलमहलप्रदेशे ‘चोकपुरा’ ‘गरहया-पूजा’ इत्येतयोः आयोजनं जातम्। ग्रामवासिनः पारम्परिकरीतिरिवाजानुसारं पशुधनस्य, विशेषतः गोवासबलिवृषयोश्च पूजनं कृतवन्तः — यतः ते एव कृषि-जीविकयोः आधारः इति मन्यन्ते।
ग्रामवासिनां मतं यत् एषः उत्सवः मनुष्यपश्वोः मध्ये सहअस्तित्वस्य, श्रमस्य, आस्थायाः च सम्बन्धस्य प्रतीकः। ग्रामीणपरिवाराः स्वगृहदीवाराङ्गणानि गोमयेन विविधवर्णैश्च अलङ्कुर्वन्ति, पशून् स्नाप्य तेषां शृङ्गयोः तैलं हरिद्रां च लेपयन्ति, दीपकान् प्रज्वाल्य पूजनं कुर्वन्ति। गृहेषु द्वारेषु च अल्पनाचित्रैः (बङ्गालस्य पारम्परिकचित्रकलया) सज्जनं कुर्वन्ति। बेलपहाडीप्रदेशे तस्य समीपग्रामेषु च ढाक-ढोल-वाद्यैः, लोकगीतैः, नृत्यैश्च सह सर्वत्र उत्सवभावः व्याप्य आसीत्। नार्यः पारम्परिकवेशभूषायां गीतानि गायन्त्यः गृहात् गृहं भ्रमन्त्यः दृष्टाः।
झाड़ग्रामप्रशासनमपि अस्मिन् अवसरि स्थानिकलोकसंस्कृतिं प्रोत्साहयितुं विविधकार्यक्रमान् आयोजितवन्। सांस्कृतिककार्यकर्तारः अवदन् यत् ‘बांधनापर्व’ केवलं पूजैव न, अपि तु प्रकृतेः जीवेषु च कृतज्ञताया उत्सवः अस्ति, यः ग्राम्यबङ्गालस्य आत्मानं प्रकाशयति।
आदिवासीपरम्परायां ‘बांधना’ इति शब्दस्य अर्थः बन्धनं, सम्बन्धः, संयोजनं वा इत्यस्ति। तेन तात्पर्यं यत् मनुष्यपश्वोः मध्ये आत्मीयबन्धनम् एव अस्य पर्वणः सारः। संथाल-मुण्डा-कुर्मी-समुदायेषु एषः उत्सवः प्रकृतिदेवतायाः पशुधनस्य च प्रति सम्मानरूपः सामाजिकः उत्सवः इति स्वीकृतः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता