Enter your Email Address to subscribe to our newsletters
- नियमेन सह भगिन्यः कारागारेषु स्वबन्दुभ्रातॄन् मेलितुं शक्नुवन्ति।
भोपालम्, 23 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशे अद्य गुरुवासरे भ्रातृद्वितीया-पावनसन्ध्यायां कारागारेषु निरुद्धानां बन्दिनां स्वभगिनीभिः सह प्रत्यक्षमेलनं करायिष्यते। अस्मिन् अवसरि भगिन्यः स्वभ्रातॄणां ललाटे तिलकं लेपयितुं शक्नुवन्ति। एषा मुलाकात् विशेषशर्ताभिः सह करायिष्यते। तस्मै कारागारप्रशासनम् कठोरनियन्त्रितव्यवस्थां कृतवान् अस्ति। बन्दिनः केवलं स्वपरिवारस्य नार्यः तथा षड्वर्षात् अवराः बालकाः एव मिलितुं अर्हन्ति।
कारागारमुख्यालयेन प्रकाशितेषु दिशानिर्देशेषु उक्तं यत् प्रदेशस्य कारागारेषु निरुद्धैः भ्रातृभिः मिलितुं इच्छन्तीनां भगिनीनां नामानि भ्रातृद्वितीयायाः अवसरस्य पूर्वमेव लिखितानि भविष्यन्ति। केवलं पंजीकृतभगिन्यः एव स्वभ्रातृभिः सह मिलिष्यन्ति। मिलनाय आगच्छन्त्यः सर्वाः भगिन्यः कारागारसुरक्षां च नियमावलीं च अनुवर्तयितुम् अनिवार्याः। तासां प्रति अनुरोधः कृतः यत् ताः मोबाइलदूरभाषयन्त्रं, मादकद्रव्यं वा अन्यां निषिद्धसामग्रीं न आनयन्तु। आगच्छन्त्यः सर्वाः भगिन्यः सीसीटीव्हीकैमरेण पर्यवेक्षणे भविष्यन्ति।
एतदपि अनुरोधितं यत् आगच्छन्त्यः भगिन्यः बाह्यसामग्रीं कांचन न आनयन्तु। कारागारकैन्टीनतः भ्रातृद्वितीयायाः विशेषकिट् निर्दिष्टशुल्केन प्राप्तुं शक्यते। तस्मिन् किट् मध्ये मधुराणि, कुङ्कुमम्, अक्षताः इत्यादिसामग्रीः उपलभ्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता